Mahabharata

Udyoga Parva, Adhyaya 56

Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 1

कांस्तत्र संजयापश्यः प्रत्यर्थेन समागतान्

ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम्

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 2

मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम्

चेकितानं च तत्रैव युयुधानं च सात्यकिम्

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 3

पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ

महारथौ समाख्यातावुभौ पुरुषमानिनौ

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 4

अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः

सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 5

द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः

उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 6

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च

सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 7

सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा

अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 8

जारासंधिर्मागधश्च धृष्टकेतुश्च चेदिराट्

पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 9

केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः

अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 10

एतानेतावतस्तत्र यानपश्यं समागतान्

ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम्

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 11

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्

स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 12

भीष्मः शांतनवो राजन्भागः कॢप्तः शिखण्डिनः

तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 13

ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली

तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 14

दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च

प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 15

अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः

अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 16

अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः

सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 17

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः

केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 18

तेषामेव कृतो भागो मालवाः शाल्वकेकयाः

त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 19

दुर्योधनसुताः सर्वे तथा दुःशासनस्य च

सौभद्रेण कृतो भागो राजा चैव बृहद्बलः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 20

द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः

धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 21

चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति

भोजं तु कृतवर्माणं युयुधानो युयुत्सति

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 22

सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि

स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम्

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 23

उलूकं चापि कैतव्यं ये च सारस्वता गणाः

नकुलः कल्पयामास भागं माद्रवतीसुतः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 24

ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे

समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन्

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 25

एवमेषामनीकानि प्रविभक्तानि भागशः

यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम्

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 26

न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः

येषां युद्धं बलवता भीमेन रणमूर्धनि

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 27

राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा

गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम्

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 28

विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः

तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 29

सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः

सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः

Mahabharata

Udyoga Parva, Adhyaya 56, Verse 30

येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः

योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ