Udyoga Parva, Adhyaya 55, Verse 1
अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय
किं स्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय
किं स्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः
अतीव मुदितो राजन्युद्धप्रेप्सुर्युधिष्ठिरः
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः
रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः
मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत्
तमपश्याम संनद्धं मेघं विद्युत्प्रभं यथा
स मन्त्रान्समभिध्याय हृष्यमाणोऽभ्यभाषत
पूर्वरूपमिदं पश्य वयं जेष्याम संजय
बीभत्सुर्मां यथोवाच तथावैम्यहमप्युत
प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान्
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजः
भौवनः सह शक्रेण बहुचित्रं विशां पते
रूपाणि कल्पयामास त्वष्टा धात्रा सहाभिभो
ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया
महाधनानि दिव्यानि महान्ति च लघूनि च
सर्वा दिशो योजनमात्रमन्तरं; स तिर्यगूर्ध्वं च रुरोध वै ध्वजः
न संसज्जेत्तरुभिः संवृतोऽपि; तथा हि माया विहिता भौवनेन
यथाकाशे शक्रधनुः प्रकाशते; न चैकवर्णं न च विद्म किं नु तत्
तथा ध्वजो विहितो भौवनेन; बह्वाकारं दृश्यते रूपमस्य
यथाग्निधूमो दिवमेति रुद्ध्वा; वर्णान्बिभ्रत्तैजसं तच्छरीरम्
तथा ध्वजो विहितो भौवनेन; न चेद्भारो भविता नोत रोधः
श्वेतास्तस्मिन्वातवेगाः सदश्वा; दिव्या युक्ताश्चित्ररथेन दत्ताः
शतं यत्तत्पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात्
तथा राज्ञो दन्तवर्णा बृहन्तो; रथे युक्ता भान्ति तद्वीर्यतुल्याः
ऋश्यप्रख्या भीमसेनस्य वाहा; रणे वायोस्तुल्यवेगा बभूवुः
कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा; भ्रात्रा दत्ताः प्रीयता फल्गुनेन
भ्रातुर्वीरस्य स्वैस्तुरंगैर्विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति
माद्रीपुत्रं नकुलं त्वाजमीढं; महेन्द्रदत्ता हरयो वाजिमुख्याः
समा वायोर्बलवन्तस्तरस्विनो; वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम्
तुल्याश्चैभिर्वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः
सौभद्रादीन्द्रौपदेयान्कुमारा;न्वहन्त्यश्वा देवदत्ता बृहन्तः