Mahabharata

Udyoga Parva, Adhyaya 53

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 1

एवमेतन्महाराज यथा वदसि भारत

युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 2

इदं तु नाभिजानामि तव धीरस्य नित्यशः

यत्पुत्रवशमागच्छेः सत्त्वज्ञः सव्यसाचिनः

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 3

नैष कालो महाराज तव शश्वत्कृतागसः

त्वया ह्येवादितः पार्था निकृता भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 4

पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान्

आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 5

इदं जितमिदं लब्धमिति श्रुत्वा पराजितान्

द्यूतकाले महाराज स्मयसे स्म कुमारवत्

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 6

परुषाण्युच्यमानान्स्म पुरा पार्थानुपेक्षसे

कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 7

पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः

अथ वीरैर्जितां भूमिमखिलां प्रत्यपद्यथाः

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 8

बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता

मयेदं कृतमित्येव मन्यसे राजसत्तम

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 9

ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि

आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 10

कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत्

पाण्डवेषु वनं राजन्प्रव्रजत्सु पुनः पुनः

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 11

प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून्

अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 12

अस्यतां फल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम्

केशवः सर्वभूतानां चक्राणां च सुदर्शनम्

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 13

वानरो रोचमानश्च केतुः केतुमतां वरः

एवमेतानि सरथो वहञ्श्वेतहयो रणे

क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम्

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 14

तस्याद्य वसुधा राजन्निखिला भरतर्षभ

यस्य भीमार्जुनौ योधौ स राजा राजसत्तम

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 15

तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम्

दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 16

न हि भीमभयाद्भीता लप्स्यन्ते विजयं विभो

तव पुत्रा महाराज राजानश्चानुसारिणः

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 17

मत्स्यास्त्वामद्य नार्चन्ति पाञ्चालाश्च सकेकयाः

शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते

पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 18

अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा

सर्वोपायैर्नियन्तव्यः सानुगः पापपूरुषः

तव पुत्रो महाराज नात्र शोचितुमर्हसि

Mahabharata

Udyoga Parva, Adhyaya 53, Verse 19

द्यूतकाले मया चोक्तं विदुरेण च धीमता

यदिदं ते विलपितं पाण्डवान्प्रति भारत

अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम्