Udyoga Parva, Adhyaya 52, Verse 1
यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः
तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः
तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः
त्वमेव हि पराक्रान्तानाचक्षीथाः परान्मम
पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान्
यश्च सेन्द्रानिमाँल्लोकानिच्छन्कुर्याद्वशे बली
स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः
समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान्
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान्
धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः
मामकेषु रणं कर्ता बलेषु परमास्त्रवित्
युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात्
यमाभ्यां भीमसेनाच्च भयं मे तात जायते
अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा
मम सेनां हनिष्यन्ति ततः क्रोशामि संजय
दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी
मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः
मित्रामात्यैः सुसंपन्नः संपन्नो योज्ययोजकैः
भ्रातृभिः श्वशुरैः पुत्रैरुपपन्नो महारथैः
धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः
अनृशंसो वदान्यश्च ह्रीमान्सत्यपराक्रमः
बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः
तं सर्वगुणसंपन्नं समिद्धमिव पावकम्
तपन्तमिव को मन्दः पतिष्यति पतंगवत्
पाण्डवाग्निमनावार्यं मुमूर्षुर्मूढचेतनः
तनुरुच्चः शिखी राजा शुद्धजाम्बूनदप्रभः
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत
युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम्
एषा मे परमा शान्तिर्यया शाम्यति मे मनः
यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे
न तु नः शिक्षमाणानामुपेक्षेत युधिष्ठिरः
जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम्