Mahabharata

Udyoga Parva, Adhyaya 52

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 1

यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः

तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 2

त्वमेव हि पराक्रान्तानाचक्षीथाः परान्मम

पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान्

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 3

यश्च सेन्द्रानिमाँल्लोकानिच्छन्कुर्याद्वशे बली

स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 4

समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान्

शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान्

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 5

धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः

मामकेषु रणं कर्ता बलेषु परमास्त्रवित्

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 6

युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात्

यमाभ्यां भीमसेनाच्च भयं मे तात जायते

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 7

अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा

मम सेनां हनिष्यन्ति ततः क्रोशामि संजय

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 8

दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी

मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 9

मित्रामात्यैः सुसंपन्नः संपन्नो योज्ययोजकैः

भ्रातृभिः श्वशुरैः पुत्रैरुपपन्नो महारथैः

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 10

धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः

अनृशंसो वदान्यश्च ह्रीमान्सत्यपराक्रमः

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 11

बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः

तं सर्वगुणसंपन्नं समिद्धमिव पावकम्

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 12

तपन्तमिव को मन्दः पतिष्यति पतंगवत्

पाण्डवाग्निमनावार्यं मुमूर्षुर्मूढचेतनः

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 13

तनुरुच्चः शिखी राजा शुद्धजाम्बूनदप्रभः

मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 14

तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत

युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम्

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 15

एषा मे परमा शान्तिर्यया शाम्यति मे मनः

यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे

Mahabharata

Udyoga Parva, Adhyaya 52, Verse 16

न तु नः शिक्षमाणानामुपेक्षेत युधिष्ठिरः

जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम्