Mahabharata

Udyoga Parva, Adhyaya 51

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 1

यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः

त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 2

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः

अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम्

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 3

अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः

प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 4

द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ

माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 5

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः

समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः

भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 6

सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः

अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम्

वधे नूनं भवेच्छान्तिस्तयोर्वा फल्गुनस्य वा

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 7

न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते

मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 8

अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च

एकान्तविजयस्त्वेव श्रूयते फल्गुनस्य ह

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 9

त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत्

जिगाय च सुरान्सर्वान्नास्य वेद्मि पराजयम्

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 10

यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि

ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 11

कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः

युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुमः

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 12

नैव नोऽस्ति धनुस्तादृङ्न योद्धा न च सारथिः

तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 13

शेषयेदशनिर्दीप्तो निपतन्मूर्ध्नि संजय

न तु शेषं शराः कुर्युरस्तास्तात किरीटिना

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 14

अपि चास्यन्निवाभाति निघ्नन्निव च फल्गुनः

उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 15

अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः

गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम्

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 16

अपि सा रथघोषेण भयार्ता सव्यसाचिनः

वित्रस्ता बहुला सेना भारती प्रतिभाति मे

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 17

यथा कक्षं दहत्यग्निः प्रवृद्धः सर्वतश्चरन्

महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान्

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 18

यदोद्वमन्निशितान्बाणसंघा;न्स्थाताततायी समरे किरीटी

सृष्टोऽन्तकः सर्वहरो विधात्रा; यथा भवेत्तद्वदवारणीयः

Mahabharata

Udyoga Parva, Adhyaya 51, Verse 19

यदा ह्यभीक्ष्णं सुबहून्प्रकारा;ञ्श्रोतास्मि तानावसथे कुरूणाम्

तेषां समन्ताच्च तथा रणाग्रे; क्षयः किलायं भरतानुपैति