Mahabharata

Udyoga Parva, Adhyaya 49

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 1

किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत

श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 2

किमिच्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः

कस्य स्विद्भ्रातृपुत्राणां चिन्तासु मुखमीक्षते

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 3

के स्विदेनं वारयन्ति शाम्य युध्येति वा पुनः

निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम्

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 4

राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह

युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 5

पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः

आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम्

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 6

तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम्

पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम्

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 7

आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम्

पाञ्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम्

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 8

ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः

क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम्

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 9

संजयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत

धृष्टद्युम्नेन सेनान्या सोमकाः किंबला इव

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 10

गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि

निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्निव

तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत्

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 11

तदाचचक्षे पुरुषः सभायां राजसंसदि

संजयोऽयं महाराज मूर्च्छितः पतितो भुवि

वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 12

अपश्यत्संजयो नूनं कुन्तीपुत्रान्महारथान्

तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 13

संजयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत्

धृतराष्ट्रं महाराज सभायां कुरुसंसदि

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 14

दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान्

मत्स्यराजगृहावासादवरोधेन कर्शितान्

शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 15

यो नैव रोषान्न भयान्न कामान्नार्थकारणात्

न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथंचन

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 16

यः प्रमाणं महाराज धर्मे धर्मभृतां वरः

अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 17

यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन

यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः

तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 18

निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात्

य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 19

याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान्

तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 20

यश्च तान्संगतान्सर्वान्पाण्डवान्वारणावते

दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 21

कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः

प्रविश्य विषमं घोरं पर्वतं गन्धमादनम्

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 22

यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम्

तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 23

कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः

अजयद्यः पुरा वीरो युध्यमानं पुरंदरम्

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 24

यः स साक्षान्महादेवं गिरिशं शूलपाणिनम्

तोषयामास युद्धेन देवदेवमुमापतिम्

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 25

यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः

तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 26

यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम्

स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 27

तेन वो दर्शनीयेन वीरेणातिधनुर्भृता

माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 28

यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत्

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 29

यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः

अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च

Mahabharata

Udyoga Parva, Adhyaya 49, Verse 30

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत

यवीयसा नृवीरेण माद्रीनन्दिकरेण च