Mahabharata

Udyoga Parva, Adhyaya 48

Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 1

समवेतेषु सर्वेषु तेषु राजसु भारत

दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 2

बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ

मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 3

आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि

विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 4

नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम्

परिवार्य च विश्वेशं पर्यासत दिवौकसः

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 5

तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम्

पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 6

बृहस्पतिश्च पप्रच्छ ब्राह्मणं काविमाविति

भवन्तं नोपतिष्ठेते तौ नः शंस पितामह

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 7

यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ

ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 8

नरनारायणावेतौ लोकाल्लोकं समास्थितौ

ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 9

एतौ हि कर्मणा लोकान्नन्दयामासतुर्ध्रुवौ

असुराणामभावाय देवगन्धर्वपूजितौ

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 10

जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः

सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 11

तदा देवासुरे घोरे भये जाते दिवौकसाम्

अयाचत महात्मानौ नरनारायणौ वरम्

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 12

तावब्रूतां वृणीष्वेति तदा भरतसत्तम

अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 13

ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि

ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान्

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 14

नर इन्द्रस्य संग्रामे हत्वा शत्रून्परंतपः

पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 15

एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः

जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 16

एष पारे समुद्रस्य हिरण्यपुरमारुजत्

हत्वा षष्टिसहस्राणि निवातकवचान्रणे

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 17

एष देवान्सहेन्द्रेण जित्वा परपुरंजयः

अतर्पयन्महाबाहुरर्जुनो जातवेदसम्

नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 18

एवमेतौ महावीर्यौ तौ पश्यत समागतौ

वासुदेवार्जुनौ वीरौ समवेतौ महारथौ

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 19

नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः

अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 20

एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः

नारायणो नरश्चैव सत्त्वमेकं द्विधाकृतम्

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 21

एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान्

तत्र तत्रैव जायेते युद्धकाले पुनः पुनः

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 22

तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः

एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित्

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 23

शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम्

पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम्

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 24

सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ

दुर्योधन तदा तात स्मर्तासि वचनं मम

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 25

नो चेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः

अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 26

न चेद्ग्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान्

तवैव हि मतं सर्वे कुरवः पर्युपासते

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 27

त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे

रामेण चैव शप्तस्य कर्णस्य भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 28

दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च

तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 29

नैवमायुष्मता वाच्यं यन्मामात्थ पितामह

क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान्

Mahabharata

Udyoga Parva, Adhyaya 48, Verse 30

किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे

न हि मे वृजिनं किंचिद्धार्तराष्ट्रा विदुः क्वचित्