Mahabharata

Udyoga Parva, Adhyaya 47

Containing 103 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 1

पृच्छामि त्वां संजय राजमध्ये; किमब्रवीद्वाक्यमदीनसत्त्वः

धनंजयस्तात युधां प्रणेता; दुरात्मनां जीवितच्छिन्महात्मा

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 2

दुर्योधनो वाचमिमां शृणोतु; यदब्रवीदर्जुनो योत्स्यमानः

युधिष्ठिरस्यानुमते महात्मा; धनंजयः शृण्वतः केशवस्य

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 3

अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः

अवोचन्मां योत्स्यमानः किरीटी; मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 4

ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां चापि तेषाम्

यथा समग्रं वचनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 5

यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे

तथाशृण्वन्पाण्डवाः सृञ्जयाश्च; किरीटिना वाचमुक्तां समर्थाम्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 6

इत्यब्रवीदर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः

न चेद्राज्यं मुञ्चति धार्तराष्ट्रो; युधिष्ठिरस्याजमीढस्य राज्ञः

अस्ति नूनं कर्म कृतं पुरस्ता;दनिर्विष्टं पापकं धार्तराष्ट्रैः

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 7

येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव

शैनेयेन ध्रुवमात्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च

युधिष्ठिरेणेन्द्रकल्पेन चैव; योऽपध्यानान्निर्दहेद्गां दिवं च

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 8

तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तोऽर्थः सकलः पाण्डवानाम्

मा तत्कार्षीः पाण्डवार्थाय हेतो;रुपैहि युद्धं यदि मन्यसे त्वम्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 9

यां तां वने दुःखशय्यामुवास; प्रव्राजितः पाण्डवो धर्मचारी

आशिष्यते दुःखतरामनर्था;मन्त्यां शय्यां धार्तराष्ट्रः परासुः

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 10

ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन

अन्यायवृत्तः कुरुपाण्डवेया;नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 11

मायोपधः प्रणिधानार्जवाभ्यां; तपोदमाभ्यां धर्मगुप्त्या बलेन

सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानोऽतिवेलम्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 12

यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत्तं वर्षपूगान्सुघोरम्

अवस्रष्टा कुरुषूद्वृत्तचेता;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 13

कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत्कक्षमग्निर्निदाघे

एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 14

यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम्

दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 15

महासिंहो गाव इव प्रविश्य; गदापाणिर्धार्तराष्ट्रानुपेत्य

यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 16

महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी

सकृद्रथेन प्रतियाद्रथौघा;न्पदातिसंघान्गदयाभिनिघ्नन्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 17

सैन्याननेकांस्तरसा विमृद्न;न्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम्

छिन्दन्वनं परशुनेव शूर;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 18

तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य

पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 19

हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशोऽधृष्टयोधम्

शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 20

उपासङ्गादुद्धरन्दक्षिणेन; परःशतान्नकुलश्चित्रयोधी

यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 21

सुखोचितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो यामशेत

आशीविषः क्रुद्ध इव श्वसन्भृशं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 22

त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः

रथैः शुभ्रैः सैन्यमभिद्रवन्तो; दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 23

शिशून्कृतास्त्रानशिशुप्रकाशा;न्यदा द्रष्टा कौरवः पञ्च शूरान्

त्यक्त्वा प्राणान्केकयानाद्रवन्त;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 24

यदा गतोद्वाहमकूजनाक्षं; सुवर्णतारं रथमाततायी

दान्तैर्युक्तं सहदेवोऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 25

महाभये संप्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम्

सर्वां दिशं संपतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 26

ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः

गान्धारिमार्च्छंस्तुमुले क्षिप्रकारी; क्षेप्ता जनान्सहदेवस्तरस्वी

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 27

यदा द्रष्टा द्रौपदेयान्महेषू;ञ्शूरान्कृतास्त्रान्रथयुद्धकोविदान्

आशीविषान्घोरविषानिवायत;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 28

यदाभिमन्युः परवीरघाती; शरैः परान्मेघ इवाभिवर्षन्

विगाहिता कृष्णसमः कृतास्त्र;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 29

यदा द्रष्टा बालमबालवीर्यं; द्विषच्चमूं मृत्युमिवापतन्तम्

सौभद्रमिन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्

Mahabharata

Udyoga Parva, Adhyaya 47, Verse 30

प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः

यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां;स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्