Udyoga Parva, Adhyaya 46, Verse 1
एवं सनत्सुजातेन विदुरेण च धीमता
सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं सनत्सुजातेन विदुरेण च धीमता
सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी
तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते
सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया
शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम्
धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम्
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम्
चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि
अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः
सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम्
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः
दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्
विविशुस्तां सभां राजन्सुराः शक्रसदो यथा
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः
शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा
ते प्रविश्य महेष्वासाः सभां समितिशोभनाः
आसनानि महार्हाणि भेजिरे सूर्यवर्चसः
आसनस्थेषु सर्वेषु तेषु राजसु भारत
द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम्
अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति
दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः
उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः
प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः
यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः
अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत्
यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः
अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः