Mahabharata

Udyoga Parva, Adhyaya 44

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 1

सनत्सुजात यदिमां परार्थां; ब्राह्मीं वाचं प्रवदसि विश्वरूपाम्

परां हि कामेषु सुदुर्लभां कथां; तद्ब्रूहि मे वाक्यमेतत्कुमार

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 2

नैतद्ब्रह्म त्वरमाणेन लभ्यं; यन्मां पृच्छस्यभिहृष्यस्यतीव

अव्यक्तविद्यामभिधास्ये पुराणीं; बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 3

अव्यक्तविद्यामिति यत्सनातनीं; ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्

अनारभ्या वसतीहार्य काले; कथं ब्राह्मण्यममृतत्वं लभेत

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 4

येऽस्मिँल्लोके विजयन्तीह कामा;न्ब्राह्मीं स्थितिमनुतितिक्षमाणाः

त आत्मानं निर्हरन्तीह देहा;न्मुञ्जादिषीकामिव सत्त्वसंस्थाः

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 5

शरीरमेतौ कुरुतः पिता माता च भारत

आचार्यशास्ता या जातिः सा सत्या साजरामरा

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 6

आचार्ययोनिमिह ये प्रविश्य; भूत्वा गर्भं ब्रह्मचर्यं चरन्ति

इहैव ते शास्त्रकारा भवन्ति; प्रहाय देहं परमं यान्ति योगम्

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 7

य आवृणोत्यवितथेन कर्णा;वृतं कुर्वन्नमृतं संप्रयच्छन्

तं मन्येत पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन्

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 8

गुरुं शिष्यो नित्यमभिमन्यमानः; स्वाध्यायमिच्छेच्छुचिरप्रमत्तः

मानं न कुर्यान्न दधीत रोष;मेष प्रथमो ब्रह्मचर्यस्य पादः

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 9

आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि

कर्मणा मनसा वाचा द्वितीयः पाद उच्यते

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 10

समा गुरौ यथा वृत्तिर्गुरुपत्न्यां तथा भवेत्

यथोक्तकारी प्रियकृत्तृतीयः पाद उच्यते

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 11

नाचार्यायेहोपकृत्वा प्रवादं; प्राज्ञः कुर्वीत नैतदहं करोमि

इतीव मन्येत न भाषयेत; स वै चतुर्थो ब्रह्मचर्यस्य पादः

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 12

एवं वसन्तं यदुपप्लवेद्धन;माचार्याय तदनुप्रयच्छेत्

सतां वृत्तिं बहुगुणामेवमेति; गुरोः पुत्रे भवति च वृत्तिरेषा

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 13

एवं वसन्सर्वतो वर्धतीह; बहून्पुत्राँल्लभते च प्रतिष्ठाम्

वर्षन्ति चास्मै प्रदिशो दिशश्च; वसन्त्यस्मिन्ब्रह्मचर्ये जनाश्च

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 14

एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन्

ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 15

गन्धर्वाणामनेनैव रूपमप्सरसामभूत्

एतेन ब्रह्मचर्येण सूर्यो अह्नाय जायते

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 16

य आशयेत्पाटयेच्चापि राज;न्सर्वं शरीरं तपसा तप्यमानः

एतेनासौ बाल्यमत्येति विद्वा;न्मृत्युं तथा रोधयत्यन्तकाले

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 17

अन्तवन्तः क्षत्रिय ते जयन्ति; लोकाञ्जनाः कर्मणा निर्मितेन

ब्रह्मैव विद्वांस्तेन अभ्येति सर्वं; नान्यः पन्था अयनाय विद्यते

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 18

आभाति शुक्लमिव लोहितमिव; अथो कृष्णमथाञ्जनं काद्रवं वा

तद्ब्राह्मणः पश्यति योऽत्र विद्वा;न्कथंरूपं तदमृतमक्षरं पदम्

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 19

नाभाति शुक्लमिव लोहितमिव; अथो कृष्णमायसमर्कवर्णम्

न पृथिव्यां तिष्ठति नान्तरिक्षे; नैतत्समुद्रे सलिलं बिभर्ति

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 20

न तारकासु न च विद्युदाश्रितं; न चाभ्रेषु दृश्यते रूपमस्य

न चापि वायौ न च देवतासु; न तच्चन्द्रे दृश्यते नोत सूर्ये

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 21

नैवर्क्षु तन्न यजुःषु नाप्यथर्वसु; न चैव दृश्यत्यमलेषु सामसु

रथंतरे बार्हते चापि राज;न्महाव्रते नैव दृश्येद्ध्रुवं तत्

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 22

अपारणीयं तमसः परस्ता;त्तदन्तकोऽप्येति विनाशकाले

अणीयरूपं क्षुरधारया त;न्महच्च रूपं त्वपि पर्वतेभ्यः

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 23

सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः

भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च

Mahabharata

Udyoga Parva, Adhyaya 44, Verse 24

अनामयं तन्महदुद्यतं यशो; वाचो विकारान्कवयो वदन्ति

तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं; ये तद्विदुरमृतास्ते भवन्ति