Mahabharata

Udyoga Parva, Adhyaya 43

Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 1

ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः

पापानि कुर्वन्पापेन लिप्यते न स लिप्यते

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 2

नैनं सामान्यृचो वापि न यजूंषि विचक्षण

त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम्

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 3

न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम्

नीडं शकुन्ता इव जातपक्षा;श्छन्दांस्येनं प्रजहत्यन्तकाले

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 4

न चेद्वेदा वेदविदं शक्तास्त्रातुं विचक्षण

अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 5

अस्मिँल्लोके तपस्तप्तं फलमन्यत्र दृश्यते

ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 6

कथं समृद्धमप्यृद्धं तपो भवति केवलम्

सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम्

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 7

क्रोधादयो द्वादश यस्य दोषा;स्तथा नृशंसादि षडत्र राजन्

धर्मादयो द्वादश चाततानाः; शास्त्रे गुणा ये विदिता द्विजानाम्

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 8

क्रोधः कामो लोभमोहौ विवित्सा;कृपासूया मानशोकौ स्पृहा च

ईर्ष्या जुगुप्सा च मनुष्यदोषा; वर्ज्याः सदा द्वादशैते नरेण

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 9

एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते

लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 10

विकत्थनः स्पृहयालुर्मनस्वी; बिभ्रत्कोपं चपलोऽरक्षणश्च

एते प्राप्ताः षण्नरान्पापधर्मा;न्प्रकुर्वते नोत सन्तः सुदुर्गे

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 11

संभोगसंविद्द्विषमेधमानो; दत्तानुतापी कृपणोऽबलीयान्

वर्गप्रशंसी वनितासु द्वेष्टा; एतेऽपरे सप्त नृशंसधर्माः

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 12

धर्मश्च सत्यं च दमस्तपश्च; अमात्सर्यं ह्रीस्तितिक्षानसूया

यज्ञश्च दानं च धृतिः श्रुतं च; महाव्रता द्वादश ब्राह्मणस्य

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 13

यस्त्वेतेभ्यः प्रवसेद्द्वादशेभ्यः; सर्वामपीमां पृथिवीं प्रशिष्यात्

त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो; नास्य स्वमस्तीति स वेदितव्यः

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 14

दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम्

तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 15

दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृताकृते

अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 16

क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च

मत्सरश्च विवित्सा च परितापस्तथा रतिः

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 17

अपस्मारः सातिवादस्तथा संभावनात्मनि

एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 18

श्रेयांस्तु षड्विधस्त्यागः प्रियं प्राप्य न हृष्यति

अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 19

इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत्

अर्हते याचमानाय प्रदेयं तद्वचो भवेत्

अप्यवाच्यं वदत्येव स तृतीयो गुणः स्मृतः

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 20

त्यक्तैर्द्रव्यैर्यो भवति नोपयुङ्क्ते च कामतः

न च कर्मसु तद्धीनः शिष्यबुद्धिर्नरो यथा

सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत्

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 21

अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जयेत्

इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत

अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत्

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 22

दोषैरेतैर्विमुक्तं तु गुणैरेतैः समन्वितम्

एतत्समृद्धमप्यृद्धं तपो भवति केवलम्

यन्मां पृच्छसि राजेन्द्र किं भूयः श्रोतुमिच्छसि

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 23

आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः

तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 24

द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे

तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम्

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 25

एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन्

सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः

एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 26

दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते

सत्यात्प्रच्यवमानानां संकल्पो वितथो भवेत्

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 27

ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात्

मनसान्यस्य भवति वाचान्यस्योत कर्मणा

संकल्पसिद्धः पुरुषः संकल्पानधितिष्ठति

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 28

अनैभृत्येन वै तस्य दीक्षितव्रतमाचरेत्

नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम्

ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 29

विद्याद्बहु पठन्तं तु बहुपाठीति ब्राह्मणम्

तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम्

य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया

Mahabharata

Udyoga Parva, Adhyaya 43, Verse 30

छन्दांसि नाम क्षत्रिय तान्यथर्वा; जगौ पुरस्तादृषिसर्ग एषः

छन्दोविदस्ते य उ तानधीत्य; न वेद्यवेदस्य विदुर्न वेद्यम्