Mahabharata

Udyoga Parva, Adhyaya 42

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 1

ततो राजा धृतराष्ट्रो मनीषी; संपूज्य वाक्यं विदुरेरितं तत्

सनत्सुजातं रहिते महात्मा; पप्रच्छ बुद्धिं परमां बुभूषन्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 2

सनत्सुजात यदीदं शृणोमि; मृत्युर्हि नास्तीति तवोपदेशम्

देवासुरा ह्याचरन्ब्रह्मचर्य;ममृत्यवे तत्कतरन्नु सत्यम्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 3

अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे

शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 4

उभे सत्ये क्षत्रियाद्यप्रवृत्ते; मोहो मृत्युः संमतो यः कवीनाम्

प्रमादं वै मृत्युमहं ब्रवीमि; सदाप्रमादममृतत्वं ब्रवीमि

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 5

प्रमादाद्वै असुराः पराभव;न्नप्रमादाद्ब्रह्मभूता भवन्ति

न वै मृत्युर्व्याघ्र इवात्ति जन्तू;न्न ह्यस्य रूपमुपलभ्यते ह

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 6

यमं त्वेके मृत्युमतोऽन्यमाहु;रात्मावसन्नममृतं ब्रह्मचर्यम्

पितृलोके राज्यमनुशास्ति देवः; शिवः शिवानामशिवोऽशिवानाम्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 7

आस्यादेष निःसरते नराणां; क्रोधः प्रमादो मोहरूपश्च मृत्युः

ते मोहितास्तद्वशे वर्तमाना; इतः प्रेतास्तत्र पुनः पतन्ति

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 8

ततस्तं देवा अनु विप्लवन्ते; अतो मृत्युर्मरणाख्यामुपैति

कर्मोदये कर्मफलानुरागा;स्तत्रानु यान्ति न तरन्ति मृत्युम्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 9

योऽभिध्यायन्नुत्पतिष्णून्निहन्या;दनादरेणाप्रतिबुध्यमानः

स वै मृत्युर्मृत्युरिवात्ति भूत्वा; एवं विद्वान्यो विनिहन्ति कामान्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 10

कामानुसारी पुरुषः कामाननु विनश्यति

कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 11

तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते

गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 12

अभिध्या वै प्रथमं हन्ति चैनं; कामक्रोधौ गृह्य चैनं तु पश्चात्

एते बालान्मृत्यवे प्रापयन्ति; धीरास्तु धैर्येण तरन्ति मृत्युम्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 13

अमन्यमानः क्षत्रिय किंचिदन्य;न्नाधीयते तार्ण इवास्य व्याघ्रः

क्रोधाल्लोभान्मोहमयान्तरात्मा; स वै मृत्युस्त्वच्छरीरे य एषः

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 14

एवं मृत्युं जायमानं विदित्वा; ज्ञाने तिष्ठन्न बिभेतीह मृत्योः

विनश्यते विषये तस्य मृत्यु;र्मृत्योर्यथा विषयं प्राप्य मर्त्यः

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 15

येऽस्मिन्धर्मान्नाचरन्तीह केचि;त्तथा धर्मान्केचिदिहाचरन्ति

धर्मः पापेन प्रतिहन्यते स्म; उताहो धर्मः प्रतिहन्ति पापम्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 16

उभयमेव तत्रोपभुज्यते फलं; धर्मस्यैवेतरस्य च

धर्मेणाधर्मं प्रणुदतीह विद्वा;न्धर्मो बलीयानिति तस्य विद्धि

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 17

यानिमानाहुः स्वस्य धर्मस्य लोका;न्द्विजातीनां पुण्यकृतां सनातनान्

तेषां परिक्रमान्कथयन्तस्ततोऽन्या;न्नैतद्विद्वन्नैव कृतं च कर्म

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 18

येषां बले न विस्पर्धा बले बलवतामिव

ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 19

यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम्

अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसंज्वरेत्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 20

यत्राकथयमानस्य प्रयच्छत्यशिवं भयम्

अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 21

यो वाकथयमानस्य आत्मानं नानुसंज्वरेत्

ब्रह्मस्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 22

यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये

एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 23

नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः

ज्ञातीनां तु वसन्मध्ये नैव विद्येत किंचन

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 24

को ह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति

तस्माद्धि किंचित्क्षत्रिय ब्रह्मावसति पश्यति

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 25

अश्रान्तः स्यादनादानात्संमतो निरुपद्रवः

शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 26

अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः

ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 27

सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन

न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 28

यमप्रयतमानं तु मानयन्ति स मानितः

न मान्यमानो मन्येत नामानादभिसंज्वरेत्

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 29

विद्वांसो मानयन्तीह इति मन्येत मानितः

अधर्मविदुषो मूढा लोकशास्त्रविशारदाः

न मान्यं मानयिष्यन्ति इति मन्येदमानितः

Mahabharata

Udyoga Parva, Adhyaya 42, Verse 30

न वै मानं च मौनं च सहितौ चरतः सदा

अयं हि लोको मानस्य असौ मानस्य तद्विदुः