Udyoga Parva, Adhyaya 41, Verse 1
अनुक्तं यदि ते किंचिद्वाचा विदुर विद्यते
तन्मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे
Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.
अनुक्तं यदि ते किंचिद्वाचा विदुर विद्यते
तन्मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे
धृतराष्ट्र कुमारो वै यः पुराणः सनातनः
सनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत
स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः
किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः
त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव
शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे
कुमारस्य तु या बुद्धिर्वेद तां शाश्वतीमहम्
ब्राह्मीं हि योनिमापन्नः सुगुह्यमपि यो वदेत्
न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते
ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम्
कथमेतेन देहेन स्यादिहैव समागमः
चिन्तयामास विदुरस्तमृषिं संशितव्रतम्
स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत
स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा
सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत्
भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे
यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि
यं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत्
लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ
विषहेरन्भयामर्षौ क्षुत्पिपासे मदोद्भवौ
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ