Mahabharata

Udyoga Parva, Adhyaya 40

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 1

योऽभ्यर्थितः सद्भिरसज्जमानः; करोत्यर्थं शक्तिमहापयित्वा

क्षिप्रं यशस्तं समुपैति सन्त;मलं प्रसन्ना हि सुखाय सन्तः

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 2

महान्तमप्यर्थमधर्मयुक्तं; यः संत्यजत्यनुपाक्रुष्ट एव

सुखं स दुःखान्यवमुच्य शेते; जीर्णां त्वचं सर्प इवावमुच्य

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 3

अनृतं च समुत्कर्षे राजगामि च पैशुनम्

गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 4

असूयैकपदं मृत्युरतिवादः श्रियो वधः

अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 5

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्

सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत्

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 6

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः

नान्तकः सर्वभूतानां न पुंसां वामलोचना

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 7

आशा धृतिं हन्ति समृद्धिमन्तकः; क्रोधः श्रियं हन्ति यशः कदर्यता

अपालनं हन्ति पशूंश्च राज;न्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम्

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 8

अजश्च कांस्यं च रथश्च नित्यं; मध्वाकर्षः शकुनिः श्रोत्रियश्च

वृद्धो ज्ञातिरवसन्नो वयस्य; एतानि ते सन्तु गृहे सदैव

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 9

अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी

विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 10

गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत्

देवब्राह्मणपूजार्थमतिथीनां च भारत

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 11

इदं च त्वां सर्वपरं ब्रवीमि; पुण्यं पदं तात महाविशिष्टम्

न जातु कामान्न भयान्न लोभा;द्धर्मं त्यजेज्जीवितस्यापि हेतोः

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 12

नित्यो धर्मः सुखदुःखे त्वनित्ये; नित्यो जीवो धातुरस्य त्वनित्यः

त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये; संतुष्य त्वं तोषपरो हि लाभः

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 13

महाबलान्पश्य महानुभावा;न्प्रशास्य भूमिं धनधान्यपूर्णाम्

राज्यानि हित्वा विपुलांश्च भोगा;न्गतान्नरेन्द्रान्वशमन्तकस्य

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 14

मृतं पुत्रं दुःखपुष्टं मनुष्या; उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति

तं मुक्तकेशाः करुणं रुदन्त;श्चितामध्ये काष्ठमिव क्षिपन्ति

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 15

अन्यो धनं प्रेतगतस्य भुङ्क्ते; वयांसि चाग्निश्च शरीरधातून्

द्वाभ्यामयं सह गच्छत्यमुत्र; पुण्येन पापेन च वेष्ट्यमानः

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 16

उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः

अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम्

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 17

अस्माल्लोकादूर्ध्वममुष्य चाधो; महत्तमस्तिष्ठति ह्यन्धकारम्

तद्वै महामोहनमिन्द्रियाणां; बुध्यस्व मा त्वां प्रलभेत राजन्

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 18

इदं वचः शक्ष्यसि चेद्यथाव;न्निशम्य सर्वं प्रतिपत्तुमेवम्

यशः परं प्राप्स्यसि जीवलोके; भयं न चामुत्र न चेह तेऽस्ति

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 19

आत्मा नदी भारत पुण्यतीर्था; सत्योदका धृतिकूला दमोर्मिः

तस्यां स्नातः पूयते पुण्यकर्मा; पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 20

कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्

कृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 21

प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं; विद्यावृद्धं वयसा चापि वृद्धम्

कार्याकार्ये पूजयित्वा प्रसाद्य; यः संपृच्छेन्न स मुह्येत्कदाचित्

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 22

धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा

चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 23

नित्योदकी नित्ययज्ञोपवीती; नित्यस्वाध्यायी पतितान्नवर्जी

ऋतं ब्रुवन्गुरवे कर्म कुर्व;न्न ब्राह्मणश्च्यवते ब्रह्मलोकात्

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 24

अधीत्य वेदान्परिसंस्तीर्य चाग्नी;निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च

गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा; हतः संग्रामे क्षत्रियः स्वर्गमेति

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 25

वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च; धनैः काले संविभज्याश्रितांश्च

त्रेतापूतं धूममाघ्राय पुण्यं; प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 26

ब्रह्मक्षत्रं वैश्यवर्णं च शूद्रः; क्रमेणैतान्न्यायतः पूजयानः

तुष्टेष्वेतेष्वव्यथो दग्धपाप;स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 27

चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो; हेतुं चात्र ब्रुवतो मे निबोध

क्षात्राद्धर्माद्धीयते पाण्डुपुत्र;स्तं त्वं राजन्राजधर्मे नियुङ्क्ष्व

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 28

एवमेतद्यथा मां त्वमनुशाससि नित्यदा

ममापि च मतिः सौम्य भवत्येवं यथात्थ माम्

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 29

सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा

दुर्योधनं समासाद्य पुनर्विपरिवर्तते

Mahabharata

Udyoga Parva, Adhyaya 40, Verse 30

न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केनचित्

दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम्