Udyoga Parva, Adhyaya 39, Verse 1
अनीश्वरोऽयं पुरुषो भवाभवे; सूत्रप्रोता दारुमयीव योषा
धात्रा तु दिष्टस्य वशे किलायं; तस्माद्वद त्वं श्रवणे धृतोऽहम्
Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.
अनीश्वरोऽयं पुरुषो भवाभवे; सूत्रप्रोता दारुमयीव योषा
धात्रा तु दिष्टस्य वशे किलायं; तस्माद्वद त्वं श्रवणे धृतोऽहम्
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्
लभते बुद्ध्यवज्ञानमवमानं च भारत
प्रियो भवति दानेन प्रियवादेन चापरः
मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः
द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः
प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत
न स क्षयो महाराज यः क्षयो वृद्धिमावहेत्
क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत्
समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे
धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत्
सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम्
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः
स्वभावगुणसंपन्नो न जातु विनयान्वितः
सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते
परापवादनिरताः परदुःखोदयेषु च
परस्परविरोधे च यतन्ते सततोत्थिताः
सदोषं दर्शनं येषां संवासे सुमहद्भयम्
अर्थादाने महान्दोषः प्रदाने च महद्भयम्
ये पापा इति विख्याताः संवासे परिगर्हिताः
युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत्
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति
या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम्
यतते चापवादाय यत्नमारभते क्षये
अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति
तादृशैः संगतं नीचैर्नृशंसैरकृतात्मभिः
निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत्
यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम्
स पुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते
ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम्
कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर
श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम्
विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ
किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः
प्रसादं कुरु दीनानां पाण्डवानां विशां पते
दीयन्तां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर
एवं लोके यशःप्राप्तो भविष्यसि नराधिप
वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम्
मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम्
ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना
सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ
संभोजनं संकथनं संप्रीतिश्च परस्परम्
ज्ञातिभिः सह कार्याणि न विरोधः कथंचन
ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च
सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च
सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद
अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि
श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति
दिग्धहस्तं मृग इव स एनस्तस्य विन्दति
पश्चादपि नरश्रेष्ठ तव तापो भविष्यति
तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय
येन खट्वां समारूढः परितप्येत कर्मणा
आदावेव न तत्कुर्यादध्रुवे जीविते सति
न कश्चिन्नापनयते पुमानन्यत्र भार्गवात्
शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति
दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम्
त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर
तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः
भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम्