Udyoga Parva, Adhyaya 38, Verse 1
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते
पीठं दत्त्वा साधवेऽभ्यागताय; आनीयापः परिनिर्णिज्य पादौ
सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थं; ततो दद्यादन्नमवेक्ष्य धीरः
यस्योदकं मधुपर्कं च गां च; नमन्त्रवित्प्रतिगृह्णाति गेहे
लोभाद्भयादर्थकार्पण्यतो वा; तस्यानर्थं जीवितमाहुरार्याः
चिकित्सकः शल्यकर्तावकीर्णी; स्तेनः क्रूरो मद्यपो भ्रूणहा च
सेनाजीवी श्रुतिविक्रायकश्च; भृशं प्रियोऽप्यतिथिर्नोदकार्हः
अविक्रेयं लवणं पक्वमन्नं; दधि क्षीरं मधु तैलं घृतं च
तिला मांसं मूलफलानि शाकं; रक्तं वासः सर्वगन्धा गुडश्च
अरोषणो यः समलोष्टकाञ्चनः; प्रहीणशोको गतसंधिविग्रहः
निन्दाप्रशंसोपरतः प्रियाप्रिये; चरन्नुदासीनवदेष भिक्षुकः
नीवारमूलेङ्गुदशाकवृत्तिः; सुसंयतात्माग्निकार्येष्वचोद्यः
वने वसन्नतिथिष्वप्रमत्तो; धुरंधरः पुण्यकृदेष तापसः
अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत्
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति
अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत्
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः
स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः
पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम्
गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत्
भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान्
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
नित्यं सन्तः कुले जाताः पावकोपमतेजसः
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते
यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये
स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते
करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत्
धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः
अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते
नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम्
अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान्
अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च
कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः
गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम्
अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति
स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्
तेषामेवाननुष्ठानं पश्चात्तापकरं महत्
स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः
अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप
अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः
आत्मप्रत्ययकोशस्य वसुधेयं वसुंधरा
नाममात्रेण तुष्येत छत्रेण च महीपतिः
भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत्
ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा
अमात्यं नृपतिर्वेद राजा राजानमेव च
न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः
अहताद्धि भयं तस्माज्जायते नचिरादिव
दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च
नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम्
कीर्तिं च लभते लोके न चानर्थेन युज्यते
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः