Mahabharata

Udyoga Parva, Adhyaya 37

Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 1

सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत्

वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 2

तानेवेन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत्

अथो मरीचिनः पादाननाम्यान्नमतस्तथा

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 3

यश्चाशिष्यं शासति यश्च कुप्यते; यश्चातिवेलं भजते द्विषन्तम्

स्त्रियश्च योऽरक्षति भद्रमस्तु ते; यश्चायाच्यं याचति यश्च कत्थते

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 4

यश्चाभिजातः प्रकरोत्यकार्यं; यश्चाबलो बलिना नित्यवैरी

अश्रद्दधानाय च यो ब्रवीति; यश्चाकाम्यं कामयते नरेन्द्र

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 5

वध्वा हासं श्वशुरो यश्च मन्यते; वध्वा वसन्नुत यो मानकामः

परक्षेत्रे निर्वपति यश्च बीजं; स्त्रियं च यः परिवदतेऽतिवेलम्

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 6

यश्चैव लब्ध्वा न स्मरामीत्युवाच; दत्त्वा च यः कत्थति याच्यमानः

यश्चासतः सान्त्वमुपासतीह; एतेऽनुयान्त्यनिलं पाशहस्ताः

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 7

यस्मिन्यथा वर्तते यो मनुष्य;स्तस्मिंस्तथा वर्तितव्यं स धर्मः

मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 8

शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा

नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 9

अतिवादोऽतिमानश्च तथात्यागो नराधिप

क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट्

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 10

एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम्

एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 11

विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः

वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 12

शरणागतहा चैव सर्वे ब्रह्महणैः समाः

एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 13

गृही वदान्योऽनपविद्धवाक्यः; शेषान्नभोक्ताप्यविहिंसकश्च

नानर्थकृत्त्यक्तकलिः कृतज्ञः; सत्यो मृदुः स्वर्गमुपैति विद्वान्

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 14

सुलभाः पुरुषा राजन्सततं प्रियवादिनः

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 15

यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये

अप्रियाण्याह पथ्यानि तेन राजा सहायवान्

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 16

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 17

आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि

आत्मानं सततं रक्षेद्दारैरपि धनैरपि

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 18

उक्तं मया द्यूतकालेऽपि राज;न्नैवं युक्तं वचनं प्रातिपीय

तदौषधं पथ्यमिवातुरस्य; न रोचते तव वैचित्रवीर्य

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 19

काकैरिमांश्चित्रबर्हान्मयूरा;न्पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः

हित्वा सिंहान्क्रोष्टुकान्गूहमानः; प्राप्ते काले शोचिता त्वं नरेन्द्र

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 20

यस्तात न क्रुध्यति सर्वकालं; भृत्यस्य भक्तस्य हिते रतस्य

तस्मिन्भृत्या भर्तरि विश्वसन्ति; न चैनमापत्सु परित्यजन्ति

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 21

न भृत्यानां वृत्तिसंरोधनेन; बाह्यं जनं संजिघृक्षेदपूर्वम्

त्यजन्ति ह्येनमुचितावरुद्धाः; स्निग्धा ह्यमात्याः परिहीनभोगाः

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 22

कृत्यानि पूर्वं परिसंख्याय सर्वा;ण्यायव्ययावनुरूपां च वृत्तिम्

संगृह्णीयादनुरूपान्सहाया;न्सहायसाध्यानि हि दुष्कराणि

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 23

अभिप्रायं यो विदित्वा तु भर्तुः; सर्वाणि कार्याणि करोत्यतन्द्रीः

वक्ता हितानामनुरक्त आर्यः; शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 24

वाक्यं तु यो नाद्रियतेऽनुशिष्टः; प्रत्याह यश्चापि नियुज्यमानः

प्रज्ञाभिमानी प्रतिकूलवादी; त्याज्यः स तादृक्त्वरयैव भृत्यः

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 25

अस्तब्धमक्लीबमदीर्घसूत्रं; सानुक्रोशं श्लक्ष्णमहार्यमन्यैः

अरोगजातीयमुदारवाक्यं; दूतं वदन्त्यष्टगुणोपपन्नम्

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 26

न विश्वासाज्जातु परस्य गेहं; गच्छेन्नरश्चेतयानो विकाले

न चत्वरे निशि तिष्ठेन्निगूढो; न राजन्यां योषितं प्रार्थयीत

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 27

न निह्नवं सत्रगतस्य गच्छे;त्संसृष्टमन्त्रस्य कुसंगतस्य

न च ब्रूयान्नाश्वसामि त्वयीति; सकारणं व्यपदेशं तु कुर्यात्

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 28

घृणी राजा पुंश्चली राजभृत्यः; पुत्रो भ्राता विधवा बालपुत्रा

सेनाजीवी चोद्धृतभक्त एव; व्यवहारे वै वर्जनीयाः स्युरेते

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 29

गुणा दश स्नानशीलं भजन्ते; बलं रूपं स्वरवर्णप्रशुद्धिः

स्पर्शश्च गन्धश्च विशुद्धता च; श्रीः सौकुमार्यं प्रवराश्च नार्यः

Mahabharata

Udyoga Parva, Adhyaya 37, Verse 30

गुणाश्च षण्मितभुक्तं भजन्ते; आरोग्यमायुश्च सुखं बलं च

अनाविलं चास्य भवेदपत्यं; न चैनमाद्यून इति क्षिपन्ति