Udyoga Parva, Adhyaya 35, Verse 1
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्
उभे एते समे स्यातामार्जवं वा विशिष्यते
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि
यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना
किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति
प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः
इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
सुधन्वानं च मां चैव प्रातर्द्रष्टासि संगतौ
अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम्
एकत्वमुपसंपन्नो न त्वासेयं त्वया सह
अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम्
सुधन्वन्न त्वमर्होऽसि मया सह समासनम्
पितापि ते समासीनमुपासीतैव मामधः
बालः सुखैधितो गेहे न त्वं किंचन बुध्यसे
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते
न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित्
पितरं ते गमिष्यावः प्राणयोर्विपणे कृते
पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत्
इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह
आशीविषाविव क्रुद्धावेकमार्गमिहागतौ
किं वै सहैव चरतो न पुरा चरतः सह
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना
न मे सुधन्वना सख्यं प्राणयोर्विपणावहे
प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः
उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता
उदकं मधुपर्कं च पथ एवार्पितं मम
प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः
पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत्
अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम्
एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत्
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः
यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत्
नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः
अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत्
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते
शतमश्वानृते हन्ति सहस्रं पुरुषानृते
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः
मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः
विरोचन सुधन्वायं प्राणानामीश्वरस्तव
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम्
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः
पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम्