Mahabharata

Udyoga Parva, Adhyaya 34

Containing 83 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 1

जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि

तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 2

त्वं मां यथावद्विदुर प्रशाधि; प्रज्ञापूर्वं सर्वमजातशत्रोः

यन्मन्यसे पथ्यमदीनसत्त्व; श्रेयस्करं ब्रूहि तद्वै कुरूणाम्

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 3

पापाशङ्की पापमेवानुपश्य;न्पृच्छामि त्वां व्याकुलेनात्मनाहम्

कवे तन्मे ब्रूहि सर्वं यथाव;न्मनीषितं सर्वमजातशत्रोः

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 4

शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्

अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम्

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 5

तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति

वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 6

मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत

अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 7

तथैव योगविहितं न सिध्येत्कर्म यन्नृप

उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 8

अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु

संप्रधार्य च कुर्वीत न वेगेन समाचरेत्

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 9

अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम्

उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 10

यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये

कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 11

यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति

युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 12

न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम्

श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम्

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 13

भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम्

रूपाभिपाती ग्रसते नानुबन्धमवेक्षते

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 14

यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्

हितं च परिणामे यत्तदद्यं भूतिमिच्छता

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 15

वनस्पतेरपक्वानि फलानि प्रचिनोति यः

स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 16

यस्तु पक्वमुपादत्ते काले परिणतं फलम्

फलाद्रसं स लभते बीजाच्चैव फलं पुनः

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 17

यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः

तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 18

पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्

मालाकार इवारामे न यथाङ्गारकारकः

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 19

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः

इति कर्माणि संचिन्त्य कुर्याद्वा पुरुषो न वा

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 20

अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः

कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 21

कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान्

क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान्

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 22

ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव

आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 23

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्

प्रसादयति लोकं यः तं लोकोऽनुप्रसीदति

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 24

यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव

सागरान्तामपि महीं लब्ध्वा स परिहीयते

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 25

पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा

वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 26

धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः

वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 27

अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः

प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 28

य एव यत्नः क्रियते परराष्ट्रावमर्दने

स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 29

धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्

धर्ममूलां श्रियं प्राप्य न जहाति न हीयते

Mahabharata

Udyoga Parva, Adhyaya 34, Verse 30

अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः

सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम्