Mahabharata

Udyoga Parva, Adhyaya 33

Containing 104 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 1

द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः

विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम्

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 2

प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत्

ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 3

एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम्

अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 4

विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात्

द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम्

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 5

प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम्

अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 6

प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः

न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम्

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 7

ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम्

अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम्

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 8

विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात्

यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम्

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 9

संजयो विदुर प्राप्तो गर्हयित्वा च मां गतः

अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 10

तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया

तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम्

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 11

जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि

तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 12

यतः प्राप्तः संजयः पाण्डवेभ्यो; न मे यथावन्मनसः प्रशान्तिः

सर्वेन्द्रियाण्यप्रकृतिं गतानि; किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 13

अभियुक्तं बलवता दुर्बलं हीनसाधनम्

हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 14

कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप

कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 15

श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः

अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसंमतः

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 16

निषेवते प्रशस्तानि निन्दितानि न सेवते

अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम्

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 17

क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता

यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 18

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे

कृतमेवास्य जानन्ति स वै पण्डित उच्यते

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 19

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः

समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 20

यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते

कामादर्थं वृणीते यः स वै पण्डित उच्यते

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 21

यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते

न किंचिदवमन्यन्ते पण्डिता भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 22

क्षिप्रं विजानाति चिरं शृणोति; विज्ञाय चार्थं भजते न कामात्

नासंपृष्टो व्युपयुङ्क्ते परार्थे; तत्प्रज्ञानं प्रथमं पण्डितस्य

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 23

नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्

आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 24

निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः

अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 25

आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते

हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 26

न हृष्यत्यात्मसंमाने नावमानेन तप्यते

गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 27

तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्

उपायज्ञो मनुष्याणां नरः पण्डित उच्यते

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 28

प्रवृत्तवाक्चित्रकथ ऊहवान्प्रतिभानवान्

आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 29

श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा

असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः

Mahabharata

Udyoga Parva, Adhyaya 33, Verse 30

अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः

अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः