Mahabharata

Udyoga Parva, Adhyaya 32

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 1

अनुज्ञातः पाण्डवेन प्रययौ संजयस्तदा

शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 2

संप्राप्य हास्तिनपुरं शीघ्रं च प्रविवेश ह

अन्तःपुरमुपस्थाय द्वाःस्थं वचनमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 3

आचक्ष्व मां धृतराष्ट्राय द्वाःस्थ; उपागतं पाण्डवानां सकाशात्

जागर्ति चेदभिवदेस्त्वं हि क्षत्तः; प्रविशेयं विदितो भूमिपस्य

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 4

संजयोऽयं भूमिपते नमस्ते; दिदृक्षया द्वारमुपागतस्ते

प्राप्तो दूतः पाण्डवानां सकाशा;त्प्रशाधि राजन्किमयं करोतु

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 5

आचक्ष्व मां सुखिनं काल्यमस्मै; प्रवेश्यतां स्वागतं संजयाय

न चाहमेतस्य भवाम्यकाल्यः; स मे कस्माद्द्वारि तिष्ठेत क्षत्तः

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 6

ततः प्रविश्यानुमते नृपस्य; महद्वेश्म प्राज्ञशूरार्यगुप्तम्

सिंहासनस्थं पार्थिवमाससाद; वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 7

संजयोऽहं भूमिपते नमस्ते; प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान्

अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी; युधिष्ठिरः कुशलं चान्वपृच्छत्

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 8

स ते पुत्रान्पृच्छति प्रीयमाणः; कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च

तथा सुहृद्भिः सचिवैश्च राज;न्ये चापि त्वामुपजीवन्ति तैश्च

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 9

अभ्येत्य त्वां तात वदामि संजय; अजातशत्रुं च सुखेन पार्थम्

कच्चित्स राजा कुशली सपुत्रः; सहामात्यः सानुजः कौरवाणाम्

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 10

सहामात्यः कुशली पाण्डुपुत्रो; भूयश्चातो यच्च तेऽग्रे मनोऽभूत्

निर्णिक्तधर्मार्थकरो मनस्वी; बहुश्रुतो दृष्टिमाञ्शीलवांश्च

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 11

परं धर्मात्पाण्डवस्यानृशंस्यं; धर्मः परो वित्तचयान्मतोऽस्य

सुखप्रिये धर्महीने न पार्थो;ऽनुरुध्यते भारत तस्य विद्धि

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 12

परप्रयुक्तः पुरुषो विचेष्टते; सूत्रप्रोता दारुमयीव योषा

इमं दृष्ट्वा नियमं पाण्डवस्य; मन्ये परं कर्म दैवं मनुष्यात्

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 13

इमं च दृष्ट्वा तव कर्मदोषं; पादोदर्कं घोरमवर्णरूपम्

यावन्नरः कामयतेऽतिकाल्यं; तावन्नरोऽयं लभते प्रशंसाम्

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 14

अजातशत्रुस्तु विहाय पापं; जीर्णां त्वचं सर्प इवासमर्थाम्

विरोचतेऽहार्यवृत्तेन धीरो; युधिष्ठिरस्त्वयि पापं विसृज्य

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 15

अङ्गात्मनः कर्म निबोध राज;न्धर्मार्थयुक्तादार्यवृत्तादपेतम्

उपक्रोशं चेह गतोऽसि राज;न्नोहेश्च पापं प्रसजेदमुत्र

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 16

स त्वमर्थं संशयितं विना तै;राशंससे पुत्रवशानुगोऽद्य

अधर्मशब्दश्च महान्पृथिव्यां; नेदं कर्म त्वत्समं भारताग्र्य

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 17

हीनप्रज्ञो दौष्कुलेयो नृशंसो; दीर्घवैरी क्षत्रविद्यास्वधीरः

एवंधर्मा नापदः संतितीर्षे;द्धीनवीर्यो यश्च भवेदशिष्टः

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 18

कुले जातो धर्मवान्यो यशस्वी; बहुश्रुतः सुखजीवी यतात्मा

धर्मार्थयोर्ग्रथितयोर्बिभर्ति; नान्यत्र दिष्टस्य वशादुपैति

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 19

कथं हि मन्त्राग्र्यधरो मनीषी; धर्मार्थयोरापदि संप्रणेता

एवंयुक्तः सर्वमन्त्रैरहीनो; अनानृशंस्यं कर्म कुर्यादमूढः

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 20

तवापीमे मन्त्रविदः समेत्य; समासते कर्मसु नित्ययुक्ताः

तेषामयं बलवान्निश्चयश्च; कुरुक्षयार्थे निरयो व्यपादि

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 21

अकालिकं कुरवो नाभविष्य;न्पापेन चेत्पापमजातशत्रुः

इच्छेज्जातु त्वयि पापं विसृज्य; निन्दा चेयं तव लोकेऽभविष्यत्

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 22

किमन्यत्र विषयादीश्वराणां; यत्र पार्थः परलोकं ददर्श

अत्यक्रामत्स तथा संमतः स्या;न्न संशयो नास्ति मनुष्यकारः

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 23

एतान्गुणान्कर्मकृतानवेक्ष्य; भावाभावौ वर्तमानावनित्यौ

बलिर्हि राजा पारमविन्दमानो; नान्यत्कालात्कारणं तत्र मेने

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 24

चक्षुः श्रोत्रे नासिका त्वक्च जिह्वा; ज्ञानस्यैतान्यायतनानि जन्तोः

तानि प्रीतान्येव तृष्णाक्षयान्ते; तान्यव्यथो दुःखहीनः प्रणुद्यात्

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 25

न त्वेव मन्ये पुरुषस्य कर्म; संवर्तते सुप्रयुक्तं यथावत्

मातुः पितुः कर्मणाभिप्रसूतः; संवर्धते विधिवद्भोजनेन

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 26

प्रियाप्रिये सुखदुःखे च राज;न्निन्दाप्रशंसे च भजेत एनम्

परस्त्वेनं गर्हयतेऽपराधे; प्रशंसते साधुवृत्तं तमेव

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 27

स त्वा गर्हे भारतानां विरोधा;दन्तो नूनं भवितायं प्रजानाम्

नो चेदिदं तव कर्मापराधा;त्कुरून्दहेत्कृष्णवर्त्मेव कक्षम्

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 28

त्वमेवैको जातपुत्रेषु राज;न्वशं गन्ता सर्वलोके नरेन्द्र

कामात्मनां श्लाघसे द्यूतकाले; नान्यच्छमात्पश्य विपाकमस्य

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 29

अनाप्तानां प्रग्रहात्त्वं नरेन्द्र; तथाप्तानां निग्रहाच्चैव राजन्

भूमिं स्फीतां दुर्बलत्वादनन्तां; न शक्तस्त्वं रक्षितुं कौरवेय

Mahabharata

Udyoga Parva, Adhyaya 32, Verse 30

अनुज्ञातो रथवेगावधूतः; श्रान्तो निपद्ये शयनं नृसिंह

प्रातः श्रोतारः कुरवः सभाया;मजातशत्रोर्वचनं समेताः