Udyoga Parva, Adhyaya 31, Verse 1
उत सन्तमसन्तं च बालं वृद्धं च संजय
उताबलं बलीयांसं धाता प्रकुरुते वशे
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
उत सन्तमसन्तं च बालं वृद्धं च संजय
उताबलं बलीयांसं धाता प्रकुरुते वशे
उत बालाय पाण्डित्यं पण्डितायोत बालताम्
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्
अलं विज्ञापनाय स्यादाचक्षीथा यथातथम्
अथो मन्त्रं मन्त्रयित्वा अन्योन्येनातिहृष्टवत्
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम्
अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम्
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम्
तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिंदम
राज्ये तान्स्थापयित्वाग्रे नोपेक्षीर्विनशिष्यतः
सर्वमप्येतदेकस्य नालं संजय कस्यचित्
तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः
तथा भीष्मं शांतनवं भारतानां पितामहम्
शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तयन्
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः
भवता शंतनोर्वंशो निमग्नः पुनरुद्धृतः
स त्वं कुरु तथा तात स्वमतेन पितामह
यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम्
तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्
अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः
अथो सुयोधनं ब्रूया राजपुत्रममर्षणम्
मध्ये कुरूणामासीनमनुनीय पुनः पुनः
अपश्यन्मामुपेक्षन्तं कृष्णामेकां सभागताम्
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति
एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः
यथा बलीयसः सन्तस्तत्सर्वं कुरवो विदुः
यन्नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान्
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति
यत्तत्सभायामाक्रम्य कृष्णां केशेष्वधर्षयत्
दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम्
यथोचितं स्वकं भागं लभेमहि परंतप
निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ
शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम्
राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम्
कुशस्थलं वृकस्थलमासन्दी वारणावतम्
अवसानं भवेदत्र किंचिदेव तु पञ्चमम्
भ्रातॄणां देहि पञ्चानां ग्रामान्पञ्च सुयोधन
शान्तिर्नोऽस्तु महाप्राज्ञ ज्ञातिभिः सह संजय
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्
स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह
अक्षतान्कुरुपाञ्चालान्पश्येम इति कामये
सर्वे सुमनसस्तात शाम्याम भरतर्षभ
अलमेव शमायास्मि तथा युद्धाय संजय
धर्मार्थयोरलं चाहं मृदवे दारुणाय च