Mahabharata

Udyoga Parva, Adhyaya 30

Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 1

आमन्त्रये त्वा नरदेवदेव; गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु

कच्चिन्न वाचा वृजिनं हि किंचि;दुच्चारितं मे मनसोऽभिषङ्गात्

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 2

जनार्दनं भीमसेनार्जुनौ च; माद्रीसुतौ सात्यकिं चेकितानम्

आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 3

अनुज्ञातः संजय स्वस्ति गच्छ; न नोऽकार्षीरप्रियं जातु किंचित्

विद्मश्च त्वा ते च वयं च सर्वे; शुद्धात्मानं मध्यगतं सभास्थम्

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 4

आप्तो दूतः संजय सुप्रियोऽसि; कल्याणवाक्शीलवान्दृष्टिमांश्च

न मुह्येस्त्वं संजय जातु मत्या; न च क्रुध्येरुच्यमानोऽपि तथ्यम्

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 5

न मर्मगां जातु वक्तासि रूक्षां; नोपस्तुतिं कटुकां नोत शुक्ताम्

धर्मारामामर्थवतीमहिंस्रा;मेतां वाचं तव जानामि सूत

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 6

त्वमेव नः प्रियतमोऽसि दूत; इहागच्छेद्विदुरो वा द्वितीयः

अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं; धनंजयस्यात्मसमः सखासि

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 7

इतो गत्वा संजय क्षिप्रमेव; उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः

विशुद्धवीर्यांश्चरणोपपन्ना;न्कुले जातान्सर्वधर्मोपपन्नान्

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 8

स्वाध्यायिनो ब्राह्मणा भिक्षवश्च; तपस्विनो ये च नित्या वनेषु

अभिवाद्या वै मद्वचनेन वृद्धा;स्तथेतरेषां कुशलं वदेथाः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 9

पुरोहितं धृतराष्ट्रस्य राज्ञ; आचार्याश्च ऋत्विजो ये च तस्य

तैश्च त्वं तात सहितैर्यथार्हं; संगच्छेथाः कुशलेनैव सूत

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 10

आचार्य इष्टोऽनपगो विधेयो; वेदानीप्सन्ब्रह्मचर्यं चचार

योऽस्त्रं चतुष्पात्पुनरेव चक्रे; द्रोणः प्रसन्नोऽभिवाद्यो यथार्हम्

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 11

अधीतविद्यश्चरणोपपन्नो; योऽस्त्रं चतुष्पात्पुनरेव चक्रे

गन्धर्वपुत्रप्रतिमं तरस्विनं; तमश्वत्थामानं कुशलं स्म पृच्छेः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 12

शारद्वतस्यावसथं स्म गत्वा; महारथस्यास्त्रविदां वरस्य

त्वं मामभीक्ष्णं परिकीर्तयन्वै; कृपस्य पादौ संजय पाणिना स्पृशेः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 13

यस्मिञ्शौर्यमानृशंस्यं तपश्च; प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च

पादौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेदयेथाः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 14

प्रज्ञाचक्षुर्यः प्रणेता कुरूणां; बहुश्रुतो वृद्धसेवी मनीषी

तस्मै राज्ञे स्थविरायाभिवाद्य; आचक्षीथाः संजय मामरोगम्

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 15

ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो; मूर्खः शठः संजय पापशीलः

प्रशास्ता वै पृथिवी येन सर्वा; सुयोधनं कुशलं तात पृच्छेः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 16

भ्राता कनीयानपि तस्य मन्द;स्तथाशीलः संजय सोऽपि शश्वत्

महेष्वासः शूरतमः कुरूणां; दुःशासनं कुशलं तात पृच्छेः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 17

वृन्दारकं कविमर्थेष्वमूढं; महाप्रज्ञं सर्वधर्मोपपन्नम्

न तस्य युद्धं रोचते वै कदाचि;द्वैश्यापुत्रं कुशलं तात पृच्छेः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 18

निकर्तने देवने योऽद्वितीय;श्छन्नोपधः साधुदेवी मताक्षः

यो दुर्जयो देवितव्येन संख्ये; स चित्रसेनः कुशलं तात वाच्यः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 19

यस्य कामो वर्तते नित्यमेव; नान्यः शमाद्भारतानामिति स्म

स बाह्लिकानामृषभो मनस्वी; पुरा यथा माभिवदेत्प्रसन्नः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 20

गुणैरनेकैः प्रवरैश्च युक्तो; विज्ञानवान्नैव च निष्ठुरो यः

स्नेहादमर्षं सहते सदैव; स सोमदत्तः पूजनीयो मतो मे

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 21

अर्हत्तमः कुरुषु सौमदत्तिः; स नो भ्राता संजय मत्सखा च

महेष्वासो रथिनामुत्तमो यः; सहामात्यः कुशलं तस्य पृच्छेः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 22

ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भ्रातरश्चैव ये नः

यं यमेषां येन येनाभिगच्छे;रनामयं मद्वचनेन वाच्यः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 23

ये राजानः पाण्डवायोधनाय; समानीता धार्तराष्ट्रेण केचित्

वसातयः शाल्वकाः केकयाश्च; तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 24

प्राच्योदीच्या दाक्षिणात्याश्च शूरा;स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे

अनृशंसाः शीलवृत्तोपपन्ना;स्तेषां सर्वेषां कुशलं तात पृच्छेः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 25

हस्त्यारोहा रथिनः सादिनश्च; पदातयश्चार्यसंघा महान्तः

आख्याय मां कुशलिनं स्म तेषा;मनामयं परिपृच्छेः समग्रान्

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 26

तथा राज्ञो ह्यर्थयुक्तानमात्या;न्दौवारिकान्ये च सेनां नयन्ति

आयव्ययं ये गणयन्ति युक्ता; अर्थांश्च ये महतश्चिन्तयन्ति

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 27

गान्धारराजः शकुनिः पार्वतीयो; निकर्तने योऽद्वितीयोऽक्षदेवी

मानं कुर्वन्धार्तराष्ट्रस्य सूत; मिथ्याबुद्धेः कुशलं तात पृच्छेः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 28

यः पाण्डवानेकरथेन वीरः; समुत्सहत्यप्रधृष्यान्विजेतुम्

यो मुह्यतां मोहयिताद्वितीयो; वैकर्तनं कुशलं तात पृच्छेः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 29

स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच्च

अगाधबुद्धिर्विदुरो दीर्घदर्शी; स नो मन्त्री कुशलं तात पृच्छेः

Mahabharata

Udyoga Parva, Adhyaya 30, Verse 30

वृद्धाः स्त्रियो याश्च गुणोपपन्ना; या ज्ञायन्ते संजय मातरस्ताः

ताभिः सर्वाभिः सहिताभिः समेत्य; स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः