Udyoga Parva, Adhyaya 29, Verse 1
अविनाशं संजय पाण्डवाना;मिच्छाम्यहं भूतिमेषां प्रियं च
तथा राज्ञो धृतराष्ट्रस्य सूत; सदाशंसे बहुपुत्रस्य वृद्धिम्
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
अविनाशं संजय पाण्डवाना;मिच्छाम्यहं भूतिमेषां प्रियं च
तथा राज्ञो धृतराष्ट्रस्य सूत; सदाशंसे बहुपुत्रस्य वृद्धिम्
कामो हि मे संजय नित्यमेव; नान्यद्ब्रूयां तान्प्रति शाम्यतेति
राज्ञश्च हि प्रियमेतच्छृणोमि; मन्ये चैतत्पाण्डवानां समर्थम्
सुदुष्करश्चात्र शमो हि नूनं; प्रदर्शितः संजय पाण्डवेन
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः; कस्मादेषां कलहो नात्र मूर्च्छेत्
तत्त्वं धर्मं विचरन्संजयेह; मत्तश्च जानासि युधिष्ठिराच्च
अथो कस्मात्संजय पाण्डवस्य; उत्साहिनः पूरयतः स्वकर्म
यथाख्यातमावसतः कुटुम्बं; पुराकल्पात्साधु विलोपमात्थ
अस्मिन्विधौ वर्तमाने यथाव;दुच्चावचा मतयो ब्राह्मणानाम्
कर्मणाहुः सिद्धिमेके परत्र; हित्वा कर्म विद्यया सिद्धिमेके
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये;द्विद्वानपीह विदितं ब्राह्मणानाम्
या वै विद्याः साधयन्तीह कर्म; तासां फलं विद्यते नेतरासाम्
तत्रेह वै दृष्टफलं तु कर्म; पीत्वोदकं शाम्यति तृष्णयार्तः
सोऽयं विधिर्विहितः कर्मणैव; तद्वर्तते संजय तत्र कर्म
तत्र योऽन्यत्कर्मणः साधु मन्ये;न्मोघं तस्य लपितं दुर्बलस्य
कर्मणामी भान्ति देवाः परत्र; कर्मणैवेह प्लवते मातरिश्वा
अहोरात्रे विदधत्कर्मणैव; अतन्द्रितो नित्यमुदेति सूर्यः
मासार्धमासानथ नक्षत्रयोगा;नतन्द्रितश्चन्द्रमा अभ्युपैति
अतन्द्रितो दहते जातवेदाः; समिध्यमानः कर्म कुर्वन्प्रजाभ्यः
अतन्द्रिता भारमिमं महान्तं; बिभर्ति देवी पृथिवी बलेन
अतन्द्रिताः शीघ्रमपो वहन्ति; संतर्पयन्त्यः सर्वभूतानि नद्यः
अतन्द्रितो वर्षति भूरितेजाः; संनादयन्नन्तरिक्षं दिवं च
अतन्द्रितो ब्रह्मचर्यं चचार; श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम्
हित्वा सुखं मनसश्च प्रियाणि; तेन शक्रः कर्मणा श्रैष्ठ्यमाप
सत्यं धर्मं पालयन्नप्रमत्तो; दमं तितिक्षां समतां प्रियं च
एतानि सर्वाण्युपसेवमानो; देवराज्यं मघवान्प्राप मुख्यम्
बृहस्पतिर्ब्रह्मचर्यं चचार; समाहितः संशितात्मा यथावत्
हित्वा सुखं प्रतिरुध्येन्द्रियाणि; तेन देवानामगमद्गौरवं सः
नक्षत्राणि कर्मणामुत्र भान्ति; रुद्रादित्या वसवोऽथापि विश्वे
यमो राजा वैश्रवणः कुबेरो; गन्धर्वयक्षाप्सरसश्च शुभ्राः
ब्रह्मचर्यं वेदविद्याः क्रियाश्च; निषेवमाणा मुनयोऽमुत्र भान्ति
जानन्निमं सर्वलोकस्य धर्मं; ब्राह्मणानां क्षत्रियाणां विशां च
स कस्मात्त्वं जानतां ज्ञानवान्स;न्व्यायच्छसे संजय कौरवार्थे
आम्नायेषु नित्यसंयोगमस्य; तथाश्वमेधे राजसूये च विद्धि
संयुज्यते धनुषा वर्मणा च; हस्तत्राणै रथशस्त्रैश्च भूयः
ते चेदिमे कौरवाणामुपाय;मधिगच्छेयुरवधेनैव पार्थाः
धर्मत्राणं पुण्यमेषां कृतं स्या;दार्ये वृत्ते भीमसेनं निगृह्य
ते चेत्पित्र्ये कर्मणि वर्तमाना; आपद्येरन्दिष्टवशेन मृत्युम्
यथाशक्त्या पूरयन्तः स्वकर्म; तदप्येषां निधनं स्यात्प्रशस्तम्
उताहो त्वं मन्यसे सर्वमेव; राज्ञां युद्धे वर्तते धर्मतन्त्रम्
अयुद्धे वा वर्तते धर्मतन्त्रं; तथैव ते वाचमिमां शृणोमि
चातुर्वर्ण्यस्य प्रथमं विभाग;मवेक्ष्य त्वं संजय स्वं च कर्म
निशम्याथो पाण्डवानां स्वकर्म; प्रशंस वा निन्द वा या मतिस्ते
अधीयीत ब्राह्मणोऽथो यजेत; दद्यादियात्तीर्थमुख्यानि चैव
अध्यापयेद्याजयेच्चापि याज्या;न्प्रतिग्रहान्वा विदितान्प्रतीच्छेत्
तथा राजन्यो रक्षणं वै प्रजानां; कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा
यज्ञैरिष्ट्वा सर्ववेदानधीत्य; दारान्कृत्वा पुण्यकृदावसेद्गृहान्
वैश्योऽधीत्य कृषिगोरक्षपण्यै;र्वित्तं चिन्वन्पालयन्नप्रमत्तः
प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां; धर्मशीलः पुण्यकृदावसेद्गृहान्
परिचर्या वन्दनं ब्राह्मणानां; नाधीयीत प्रतिषिद्धोऽस्य यज्ञः
नित्योत्थितो भूतयेऽतन्द्रितः स्या;देष स्मृतः शूद्रधर्मः पुराणः
एतान्राजा पालयन्नप्रमत्तो; नियोजयन्सर्ववर्णान्स्वधर्मे
अकामात्मा समवृत्तिः प्रजासु; नाधार्मिकाननुरुध्येत कामान्
श्रेयांस्तस्माद्यदि विद्येत कश्चि;दभिज्ञातः सर्वधर्मोपपन्नः
स तं दुष्टमनुशिष्यात्प्रजान;न्न चेद्गृध्येदिति तस्मिन्न साधु
यदा गृध्येत्परभूमिं नृशंसो; विधिप्रकोपाद्बलमाददानः
ततो राज्ञां भविता युद्धमेत;त्तत्र जातं वर्म शस्त्रं धनुश्च
इन्द्रेणेदं दस्युवधाय कर्म; उत्पादितं वर्म शस्त्रं धनुश्च
स्तेनो हरेद्यत्र धनं ह्यदृष्टः; प्रसह्य वा यत्र हरेत दृष्टः
उभौ गर्ह्यौ भवतः संजयैतौ; किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे
योऽयं लोभान्मन्यते धर्ममेतं; यमिच्छते मन्युवशानुगामी
भागः पुनः पाण्डवानां निविष्ट;स्तं नोऽकस्मादाददीरन्परे वै
अस्मिन्पदे युध्यतां नो वधोऽपि; श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः
एतान्धर्मान्कौरवाणां पुराणा;नाचक्षीथाः संजय राज्यमध्ये
ये ते मन्दा मृत्युवशाभिपन्नाः; समानीता धार्तराष्ट्रेण मूढाः
इदं पुनः कर्म पापीय एव; सभामध्ये पश्य वृत्तं कुरूणाम्