Mahabharata

Udyoga Parva, Adhyaya 28

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 1

असंशयं संजय सत्यमेत;द्धर्मो वरः कर्मणां यत्त्वमात्थ

ज्ञात्वा तु मां संजय गर्हयेस्त्वं; यदि धर्मं यद्यधर्मं चरामि

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 2

यत्राधर्मो धर्मरूपाणि बिभ्र;द्धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः

तथा धर्मो धारयन्धर्मरूपं; विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 3

एवमेतावापदि लिङ्गमेत;द्धर्माधर्मौ वृत्तिनित्यौ भजेताम्

आद्यं लिङ्गं यस्य तस्य प्रमाण;मापद्धर्मं संजय तं निबोध

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 4

लुप्तायां तु प्रकृतौ येन कर्म; निष्पादयेत्तत्परीप्सेद्विहीनः

प्रकृतिस्थश्चापदि वर्तमान; उभौ गर्ह्यौ भवतः संजयैतौ

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 5

अविलोपमिच्छतां ब्राह्मणानां; प्रायश्चित्तं विहितं यद्विधात्रा

आपद्यथाकर्मसु वर्तमाना;न्विकर्मस्थान्संजय गर्हयेत

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 6

मनीषिणां तत्त्वविच्छेदनाय; विधीयते सत्सु वृत्तिः सदैव

अब्राह्मणाः सन्ति तु ये न वैद्याः; सर्वोच्छेदं साधु मन्येत तेभ्यः

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 7

तदर्था नः पितरो ये च पूर्वे; पितामहा ये च तेभ्यः परेऽन्ये

प्रज्ञैषिणो ये च हि कर्म चक्रु;र्नास्त्यन्ततो नास्ति नास्तीति मन्ये

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 8

यत्किंचिदेतद्वित्तमस्यां पृथिव्यां; यद्देवानां त्रिदशानां परत्र

प्राजापत्यं त्रिदिवं ब्रह्मलोकं; नाधर्मतः संजय कामये तत्

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 9

धर्मेश्वरः कुशलो नीतिमांश्चा;प्युपासिता ब्राह्मणानां मनीषी

नानाविधांश्चैव महाबलांश्च; राजन्यभोजाननुशास्ति कृष्णः

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 10

यदि ह्यहं विसृजन्स्यामगर्ह्यो; युध्यमानो यदि जह्यां स्वधर्मम्

महायशाः केशवस्तद्ब्रवीतु; वासुदेवस्तूभयोरर्थकामः

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 11

शैनेया हि चैत्रकाश्चान्धकाश्च; वार्ष्णेयभोजाः कौकुराः सृञ्जयाश्च

उपासीना वासुदेवस्य बुद्धिं; निगृह्य शत्रून्सुहृदो नन्दयन्ति

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 12

वृष्ण्यन्धका ह्युग्रसेनादयो वै; कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः

मनस्विनः सत्यपराक्रमाश्च; महाबला यादवा भोगवन्तः

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 13

काश्यो बभ्रुः श्रियमुत्तमां गतो; लब्ध्वा कृष्णं भ्रातरमीशितारम्

यस्मै कामान्वर्षति वासुदेवो; ग्रीष्मात्यये मेघ इव प्रजाभ्यः

Mahabharata

Udyoga Parva, Adhyaya 28, Verse 14

ईदृशोऽयं केशवस्तात भूयो; विद्मो ह्येनं कर्मणां निश्चयज्ञम्

प्रियश्च नः साधुतमश्च कृष्णो; नातिक्रमे वचनं केशवस्य