Mahabharata

Udyoga Parva, Adhyaya 27

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 1

धर्मे नित्या पाण्डव ते विचेष्टा; लोके श्रुता दृश्यते चापि पार्थ

महास्रावं जीवितं चाप्यनित्यं; संपश्य त्वं पाण्डव मा विनीनशः

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 2

न चेद्भागं कुरवोऽन्यत्र युद्धा;त्प्रयच्छन्ते तुभ्यमजातशत्रो

भैक्षचर्यामन्धकवृष्णिराज्ये; श्रेयो मन्ये न तु युद्धेन राज्यम्

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 3

अल्पकालं जीवितं यन्मनुष्ये; महास्रावं नित्यदुःखं चलं च

भूयश्च तद्वयसो नानुरूपं; तस्मात्पापं पाण्डव मा प्रसार्षीः

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 4

कामा मनुष्यं प्रसजन्त एव; धर्मस्य ये विघ्नमूलं नरेन्द्र

पूर्वं नरस्तान्धृतिमान्विनिघ्नँ;ल्लोके प्रशंसां लभतेऽनवद्याम्

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 5

निबन्धनी ह्यर्थतृष्णेह पार्थ; तामेषतो बाध्यते धर्म एव

धर्मं तु यः प्रवृणीते स बुद्धः; कामे गृद्धो हीयतेऽर्थानुरोधात्

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 6

धर्मं कृत्वा कर्मणां तात मुख्यं; महाप्रतापः सवितेव भाति

हानेन धर्मस्य महीमपीमां; लब्ध्वा नरः सीदति पापबुद्धिः

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 7

वेदोऽधीतश्चरितं ब्रह्मचर्यं; यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम्

परं स्थानं मन्यमानेन भूय; आत्मा दत्तो वर्षपूगं सुखेभ्यः

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 8

सुखप्रिये सेवमानोऽतिवेलं; योगाभ्यासे यो न करोति कर्म

वित्तक्षये हीनसुखोऽतिवेलं; दुःखं शेते कामवेगप्रणुन्नः

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 9

एवं पुनरर्थचर्याप्रसक्तो; हित्वा धर्मं यः प्रकरोत्यधर्मम्

अश्रद्दधत्परलोकाय मूढो; हित्वा देहं तप्यते प्रेत्य मन्दः

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 10

न कर्मणां विप्रणाशोऽस्त्यमुत्र; पुण्यानां वाप्यथ वा पापकानाम्

पूर्वं कर्तुर्गच्छति पुण्यपापं; पश्चात्त्वेतदनुयात्येव कर्ता

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 11

न्यायोपेतं ब्राह्मणेभ्यो यदन्नं; श्रद्धापूतं गन्धरसोपपन्नम्

अन्वाहार्येषूत्तमदक्षिणेषु; तथारूपं कर्म विख्यायते ते

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 12

इह क्षेत्रे क्रियते पार्थ कार्यं; न वै किंचिद्विद्यते प्रेत्य कार्यम्

कृतं त्वया पारलोक्यं च कार्यं; पुण्यं महत्सद्भिरनुप्रशस्तम्

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 13

जहाति मृत्युं च जरां भयं च; न क्षुत्पिपासे मनसश्चाप्रियाणि

न कर्तव्यं विद्यते तत्र किंचि;दन्यत्र वै इन्द्रियप्रीणनार्थात्

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 14

एवंरूपं कर्मफलं नरेन्द्र; मात्रावता हृदयस्य प्रियेण

स क्रोधजं पाण्डव हर्षजं च; लोकावुभौ मा प्रहासीश्चिराय

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 15

अन्तं गत्वा कर्मणां या प्रशंसा; सत्यं दमश्चार्जवमानृशंस्यम्

अश्वमेधो राजसूयस्तथेष्टः; पापस्यान्तं कर्मणो मा पुनर्गाः

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 16

तच्चेदेवं देशरूपेण पार्थाः; करिष्यध्वं कर्म पापं चिराय

निवसध्वं वर्षपूगान्वनेषु; दुःखं वासं पाण्डवा धर्महेतोः

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 17

अप्रव्रज्ये योजयित्वा पुरस्ता;दात्माधीनं यद्बलं ते तदासीत्

नित्यं पाञ्चालाः सचिवास्तवेमे; जनार्दनो युयुधानश्च वीरः

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 18

मत्स्यो राजा रुक्मरथः सपुत्रः; प्रहारिभिः सह पुत्रैर्विराटः

राजानश्च ये विजिताः पुरस्ता;त्त्वामेव ते संश्रयेयुः समस्ताः

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 19

महासहायः प्रतपन्बलस्थः; पुरस्कृतो वासुदेवार्जुनाभ्याम्

वरान्हनिष्यन्द्विषतो रङ्गमध्ये; व्यनेष्यथा धार्तराष्ट्रस्य दर्पम्

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 20

बलं कस्माद्वर्धयित्वा परस्य; निजान्कस्मात्कर्शयित्वा सहायान्

निरुष्य कस्माद्वर्षपूगान्वनेषु; युयुत्ससे पाण्डव हीनकालम्

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 21

अप्रज्ञो वा पाण्डव युध्यमानो; अधर्मज्ञो वा भूतिपथाद्व्यपैति

प्रज्ञावान्वा बुध्यमानोऽपि धर्मं; संरम्भाद्वा सोऽपि भूतेरपैति

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 22

नाधर्मे ते धीयते पार्थ बुद्धि;र्न संरम्भात्कर्म चकर्थ पापम्

अद्धा किं तत्कारणं यस्य हेतोः; प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम्

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 23

अव्याधिजं कटुकं शीर्षरोगं; यशोमुषं पापफलोदयं च

सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 24

पापानुबन्धं को नु तं कामयेत; क्षमैव ते ज्यायसी नोत भोगाः

यत्र भीष्मः शांतनवो हतः स्या;द्यत्र द्रोणः सहपुत्रो हतः स्यात्

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 25

कृपः शल्यः सौमदत्तिर्विकर्णो; विविंशतिः कर्णदुर्योधनौ च

एतान्हत्वा कीदृशं तत्सुखं स्या;द्यद्विन्देथास्तदनुब्रूहि पार्थ

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 26

लब्ध्वापीमां पृथिवीं सागरान्तां; जरामृत्यू नैव हि त्वं प्रजह्याः

प्रियाप्रिये सुखदुःखे च राज;न्नेवं विद्वान्नैव युद्धं कुरुष्व

Mahabharata

Udyoga Parva, Adhyaya 27, Verse 27

अमात्यानां यदि कामस्य हेतो;रेवंयुक्तं कर्म चिकीर्षसि त्वम्

अपाक्रमेः संप्रदाय स्वमेभ्यो; मा गास्त्वं वै देवयानात्पथोऽद्य