Mahabharata

Udyoga Parva, Adhyaya 26

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 1

कां नु वाचं संजय मे शृणोषि; युद्धैषिणीं येन युद्धाद्बिभेषि

अयुद्धं वै तात युद्धाद्गरीयः; कस्तल्लब्ध्वा जातु युध्येत सूत

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 2

अकुर्वतश्चेत्पुरुषस्य संजय; सिध्येत्संकल्पो मनसा यं यमिच्छेत्

न कर्म कुर्याद्विदितं ममैत;दन्यत्र युद्धाद्बहु यल्लघीयः

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 3

कुतो युद्धं जातु नरः प्रजान;न्को दैवशप्तोऽभिवृणीत युद्धम्

सुखैषिणः कर्म कुर्वन्ति पार्था; धर्मादहीनं यच्च लोकस्य पथ्यम्

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 4

कर्मोदयं सुखमाशंसमानः; कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्

सुखप्रेप्सुर्विजिघांसुश्च दुःखं; य इन्द्रियाणां प्रीतिवशानुगामी

कामाभिध्या स्वशरीरं दुनोति; यया प्रयुक्तोऽनुकरोति दुःखम्

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 5

यथेध्यमानस्य समिद्धतेजसो; भूयो बलं वर्धते पावकस्य

कामार्थलाभेन तथैव भूयो; न तृप्यते सर्पिषेवाग्निरिद्धः

संपश्येमं भोगचयं महान्तं; सहास्माभिर्धृतराष्ट्रस्य राज्ञः

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 6

नाश्रेयसामीश्वरो विग्रहाणां; नाश्रेयसां गीतशब्दं शृणोति

नाश्रेयसः सेवते माल्यगन्धा;न्न चाप्यश्रेयांस्यनुलेपनानि

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 7

नाश्रेयसः प्रावरानध्यवस्ते; कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः

अत्रैव च स्यादवधूय एष; कामः शरीरे हृदयं दुनोति

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 8

स्वयं राजा विषमस्थः परेषु; सामस्थ्यमन्विच्छति तन्न साधु

यथात्मनः पश्यति वृत्तमेव; तथा परेषामपि सोऽभ्युपैति

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 9

आसन्नमग्निं तु निदाघकाले; गम्भीरकक्षे गहने विसृज्य

यथा वृद्धं वायुवशेन शोचे;त्क्षेमं मुमुक्षुः शिशिरव्यपाये

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 10

प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा; लालप्यते संजय कस्य हेतोः

प्रगृह्य दुर्बुद्धिमनार्जवे रतं; पुत्रं मन्दं मूढममन्त्रिणं तु

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 11

अनाप्तः सन्नाप्ततमस्य वाचं; सुयोधनो विदुरस्यावमन्य

सुतस्य राजा धृतराष्ट्रः प्रियैषी; संबुध्यमानो विशतेऽधर्ममेव

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 12

मेधाविनं ह्यर्थकामं कुरूणां; बहुश्रुतं वाग्मिनं शीलवन्तम्

सूत राजा धृतराष्ट्रः कुरुभ्यो; न सोऽस्मरद्विदुरं पुत्रकाम्यात्

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 13

मानघ्नस्य आत्मकामस्य चेर्ष्योः; संरम्भिणश्चार्थधर्मातिगस्य

दुर्भाषिणो मन्युवशानुगस्य; कामात्मनो दुर्हृदो भावनस्य

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 14

अनेयस्याश्रेयसो दीर्घमन्यो;र्मित्रद्रुहः संजय पापबुद्धेः

सुतस्य राजा धृतराष्ट्रः प्रियैषी; प्रपश्यमानः प्रजहाद्धर्मकामौ

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 15

तदैव मे संजय दीव्यतोऽभू;न्नो चेत्कुरूनागतः स्यादभावः

काव्यां वाचं विदुरो भाषमाणो; न विन्दते धृतराष्ट्रात्प्रशंसाम्

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 16

क्षत्तुर्यदा अन्ववर्तन्त बुद्धिं; कृच्छ्रं कुरून्न तदाभ्याजगाम

यावत्प्रज्ञामन्ववर्तन्त तस्य; तावत्तेषां राष्ट्रवृद्धिर्बभूव

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 17

तदर्थलुब्धस्य निबोध मेऽद्य; ये मन्त्रिणो धार्तराष्ट्रस्य सूत

दुःशासनः शकुनिः सूतपुत्रो; गावल्गणे पश्य संमोहमस्य

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 18

सोऽहं न पश्यामि परीक्षमाणः; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्

आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः; प्रव्राजिते विदुरे दीर्घदृष्टौ

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 19

आशंसते वै धृतराष्ट्रः सपुत्रो; महाराज्यमसपत्नं पृथिव्याम्

तस्मिञ्शमः केवलं नोपलभ्यो; अत्यासन्नं मद्गतं मन्यतेऽर्थम्

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 20

यत्तत्कर्णो मन्यते पारणीयं; युद्धे गृहीतायुधमर्जुनेन

आसंश्च युद्धानि पुरा महान्ति; कथं कर्णो नाभवद्द्वीप एषाम्

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 21

कर्णश्च जानाति सुयोधनश्च; द्रोणश्च जानाति पितामहश्च

अन्ये च ये कुरवस्तत्र सन्ति; यथार्जुनान्नास्त्यपरो धनुर्धरः

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 22

जानन्त्येते कुरवः सर्व एव; ये चाप्यन्ये भूमिपालाः समेताः

दुर्योधनं चापराधे चरन्त;मरिंदमे फल्गुनेऽविद्यमाने

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 23

तेनार्थबद्धं मन्यते धार्तराष्ट्रः; शक्यं हर्तुं पाण्डवानां ममत्वम्

किरीटिना तालमात्रायुधेन; तद्वेदिना संयुगं तत्र गत्वा

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 24

गाण्डीवविस्फारितशब्दमाजा;वशृण्वाना धार्तराष्ट्रा ध्रियन्ते

क्रुद्धस्य चेद्भीमसेनस्य वेगा;त्सुयोधनो मन्यते सिद्धमर्थम्

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 25

इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु;मैश्वर्यं नो जीवति भीमसेने

धनंजये नकुले चैव सूत; तथा वीरे सहदेवे मदीये

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 26

स चेदेतां प्रतिपद्येत बुद्धिं; वृद्धो राजा सह पुत्रेण सूत

एवं रणे पाण्डवकोपदग्धा; न नश्येयुः संजय धार्तराष्ट्राः

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 27

जानासि त्वं क्लेशमस्मासु वृत्तं; त्वां पूजयन्संजयाहं क्षमेयम्

यच्चास्माकं कौरवैर्भूतपूर्वं; या नो वृत्तिर्धार्तराष्ट्रे तदासीत्

Mahabharata

Udyoga Parva, Adhyaya 26, Verse 28

अद्यापि तत्तत्र तथैव वर्ततां; शान्तिं गमिष्यामि यथा त्वमात्थ

इन्द्रप्रस्थे भवतु ममैव राज्यं; सुयोधनो यच्छतु भारताग्र्यः