Mahabharata

Udyoga Parva, Adhyaya 25

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 1

समागताः पाण्डवाः सृञ्जयाश्च; जनार्दनो युयुधानो विराटः

यत्ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे ब्रूहि तत्सूतपुत्र

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 2

अजातशत्रुं च वृकोदरं च; धनंजयं माद्रवतीसुतौ च

आमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम्

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 3

पाञ्चालानामधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम्

सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिमिच्छन्कुरूणाम्

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 4

शमं राजा धृतराष्ट्रोऽभिनन्द;न्नयोजयत्त्वरमाणो रथं मे

सभ्रातृपुत्रस्वजनस्य राज्ञ;स्तद्रोचतां पाण्डवानां शमोऽस्तु

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 5

सर्वैर्धर्मैः समुपेताः स्थ पार्थाः; प्रस्थानेन मार्दवेनार्जवेन

जाताः कुले अनृशंसा वदान्या; ह्रीनिषेधाः कर्मणां निश्चयज्ञाः

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 6

न युज्यते कर्म युष्मासु हीनं; सत्त्वं हि वस्तादृशं भीमसेनाः

उद्भासते ह्यञ्जनबिन्दुवत्त;च्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 7

सर्वक्षयो दृश्यते यत्र कृत्स्नः; पापोदयो निरयोऽभावसंस्थः

कस्तत्कुर्याज्जातु कर्म प्रजान;न्पराजयो यत्र समो जयश्च

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 8

ते वै धन्या यैः कृतं ज्ञातिकार्यं; ये वः पुत्राः सुहृदो बान्धवाश्च

उपक्रुष्टं जीवितं संत्यजेयु;स्ततः कुरूणां नियतो वै भवः स्यात्

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 9

ते चेत्कुरूननुशास्य स्थ पार्था; निनीय सर्वान्द्विषतो निगृह्य

समं वस्तज्जीवितं मृत्युना स्या;द्यज्जीवध्वं ज्ञातिवधे न साधु

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 10

को ह्येव युष्मान्सह केशवेन; सचेकितानान्पार्षतबाहुगुप्तान्

ससात्यकीन्विषहेत प्रजेतुं; लब्ध्वापि देवान्सचिवान्सहेन्द्रान्

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 11

को वा कुरून्द्रोणभीष्माभिगुप्ता;नश्वत्थाम्ना शल्यकृपादिभिश्च

रणे प्रसोढुं विषहेत राज;न्राधेयगुप्तान्सह भूमिपालैः

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 12

महद्बलं धार्तराष्ट्रस्य राज्ञः; को वै शक्तो हन्तुमक्षीयमाणः

सोऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किंचित्

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 13

कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश्च पार्थाः

सोऽहं प्रसाद्य प्रणतो वासुदेवं; पाञ्चालानामधिपं चैव वृद्धम्

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 14

कृताञ्जलिः शरणं वः प्रपद्ये; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्

न ह्येव ते वचनं वासुदेवो; धनंजयो वा जातु किंचिन्न कुर्यात्

Mahabharata

Udyoga Parva, Adhyaya 25, Verse 15

प्राणानादौ याच्यमानः कुतोऽन्य;देतद्विद्वन्साधनार्थं ब्रवीमि

एतद्राज्ञो भीष्मपुरोगमस्य; मतं यद्वः शान्तिरिहोत्तमा स्यात्