Mahabharata

Udyoga Parva, Adhyaya 24

Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 24, Verse 1

यथार्हसे पाण्डव तत्तथैव; कुरून्कुरुश्रेष्ठ जनं च पृच्छसि

अनामयास्तात मनस्विनस्ते; कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम्

Mahabharata

Udyoga Parva, Adhyaya 24, Verse 2

सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे; सन्त्येव पापाः पाण्डव तस्य विद्धि

दद्याद्रिपोश्चापि हि धार्तराष्ट्रः; कुतो दायाँल्लोपयेद्ब्राह्मणानाम्

Mahabharata

Udyoga Parva, Adhyaya 24, Verse 3

यद्युष्माकं वर्ततेऽसौ न धर्म्य;मद्रुग्धेषु द्रुग्धवत्तन्न साधु

मित्रध्रुक्स्याद्धृतराष्ट्रः सपुत्रो; युष्मान्द्विषन्साधुवृत्तानसाधुः

Mahabharata

Udyoga Parva, Adhyaya 24, Verse 4

न चानुजानाति भृशं च तप्यते; शोचत्यन्तः स्थविरोऽजातशत्रो

शृणोति हि ब्राह्मणानां समेत्य; मित्रद्रोहः पातकेभ्यो गरीयान्

Mahabharata

Udyoga Parva, Adhyaya 24, Verse 5

स्मरन्ति तुभ्यं नरदेव संगमे; युद्धे च जिष्णोश्च युधां प्रणेतुः

समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं स्मरन्ति

Mahabharata

Udyoga Parva, Adhyaya 24, Verse 6

माद्रीसुतौ चापि रणाजिमध्ये; सर्वा दिशः संपतन्तौ स्मरन्ति

सेनां वर्षन्तौ शरवर्षैरजस्रं; महारथौ समरे दुष्प्रकम्प्यौ

Mahabharata

Udyoga Parva, Adhyaya 24, Verse 7

न त्वेव मन्ये पुरुषस्य राज;न्ननागतं ज्ञायते यद्भविष्यम्

त्वं चेदिमं सर्वधर्मोपपन्नः; प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम्

Mahabharata

Udyoga Parva, Adhyaya 24, Verse 8

त्वमेवैतत्सर्वमतश्च भूयः; समीकुर्याः प्रज्ञयाजातशत्रो

न कामार्थं संत्यजेयुर्हि धर्मं; पाण्डोः सुताः सर्व एवेन्द्रकल्पाः

Mahabharata

Udyoga Parva, Adhyaya 24, Verse 9

त्वमेवैतत्प्रज्ञयाजातशत्रो; शमं कुर्या येन शर्माप्नुयुस्ते

धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च; ये चाप्यन्ये पार्थिवाः संनिविष्टाः

Mahabharata

Udyoga Parva, Adhyaya 24, Verse 10

यन्माब्रवीद्धृतराष्ट्रो निशाया;मजातशत्रो वचनं पिता ते

सहामात्यः सहपुत्रश्च राज;न्समेत्य तां वाचमिमां निबोध