Mahabharata

Udyoga Parva, Adhyaya 23

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 1

राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य संजयः

उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 2

स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम्

प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 3

गावल्गणिः संजयः सूतसूनु;रजातशत्रुमवदत्प्रतीतः

दिष्ट्या राजंस्त्वामरोगं प्रपश्ये; सहायवन्तं च महेन्द्रकल्पम्

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 4

अनामयं पृच्छति त्वाम्बिकेयो; वृद्धो राजा धृतराष्ट्रो मनीषी

कच्चिद्भीमः कुशली पाण्डवाग्र्यो; धनंजयस्तौ च माद्रीतनूजौ

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 5

कच्चित्कृष्णा द्रौपदी राजपुत्री; सत्यव्रता वीरपत्नी सपुत्रा

मनस्विनी यत्र च वाञ्छसि त्व;मिष्टान्कामान्भारत स्वस्तिकामः

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 6

गावल्गणे संजय स्वागतं ते; प्रीतात्माहं त्वाभिवदामि सूत

अनामयं प्रतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन्

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 7

चिरादिदं कुशलं भारतस्य; श्रुत्वा राज्ञः कुरुवृद्धस्य सूत

मन्ये साक्षाद्दृष्टमहं नरेन्द्रं; दृष्ट्वैव त्वां संजय प्रीतियोगात्

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 8

पितामहो नः स्थविरो मनस्वी; महाप्राज्ञः सर्वधर्मोपपन्नः

स कौरव्यः कुशली तात भीष्मो; यथापूर्वं वृत्तिरप्यस्य कच्चित्

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 9

कच्चिद्राजा धृतराष्ट्रः सपुत्रो; वैचित्रवीर्यः कुशली महात्मा

महाराजो बाह्लिकः प्रातिपेयः; कच्चिद्विद्वान्कुशली सूतपुत्र

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 10

स सोमदत्तः कुशली तात कच्चि;द्भूरिश्रवाः सत्यसंधः शलश्च

द्रोणः सपुत्रश्च कृपश्च विप्रो; महेष्वासाः कच्चिदेतेऽप्यरोगाः

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 11

महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर्भृतां मुख्यतमाः पृथिव्याम्

कच्चिन्मानं तात लभन्त एते; धनुर्भृतः कच्चिदेतेऽप्यरोगाः

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 12

सर्वे कुरुभ्यः स्पृहयन्ति संजय; धनुर्धरा ये पृथिव्यां युवानः

येषां राष्ट्रे निवसति दर्शनीयो; महेष्वासः शीलवान्द्रोणपुत्रः

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 13

वैश्यापुत्रः कुशली तात कच्चि;न्महाप्राज्ञो राजपुत्रो युयुत्सुः

कर्णोऽमात्यः कुशली तात कच्चि;त्सुयोधनो यस्य मन्दो विधेयः

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 14

स्त्रियो वृद्धा भारतानां जनन्यो; महानस्यो दासभार्याश्च सूत

वध्वः पुत्रा भागिनेया भगिन्यो; दौहित्रा वा कच्चिदप्यव्यलीकाः

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 15

कच्चिद्राजा ब्राह्मणानां यथाव;त्प्रवर्तते पूर्ववत्तात वृत्तिम्

कच्चिद्दायान्मामकान्धार्तराष्ट्रो; द्विजातीनां संजय नोपहन्ति

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 16

कच्चिद्राजा धृतराष्ट्रः सपुत्र; उपेक्षते ब्राह्मणातिक्रमान्वै

कच्चिन्न हेतोरिव वर्त्मभूत; उपेक्षते तेषु स न्यूनवृत्तिम्

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 17

एतज्ज्योतिरुत्तमं जीवलोके; शुक्लं प्रजानां विहितं विधात्रा

ते चेल्लोभं न नियच्छन्ति मन्दाः; कृत्स्नो नाशो भविता कौरवाणाम्

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 18

कच्चिद्राजा धृतराष्ट्रः सपुत्रो; बुभूषते वृत्तिममात्यवर्गे

कच्चिन्न भेदेन जिजीविषन्ति; सुहृद्रूपा दुर्हृदश्चैकमित्राः

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 19

कच्चिन्न पापं कथयन्ति तात; ते पाण्डवानां कुरवः सर्व एव

कच्चिद्दृष्ट्वा दस्युसंघान्समेता;न्स्मरन्ति पार्थस्य युधां प्रणेतुः

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 20

मौर्वीभुजाग्रप्रहितान्स्म तात; दोधूयमानेन धनुर्धरेण

गाण्डीवमुक्तान्स्तनयित्नुघोषा;नजिह्मगान्कच्चिदनुस्मरन्ति

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 21

न ह्यपश्यं कंचिदहं पृथिव्यां; श्रुतं समं वाधिकमर्जुनेन

यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः; सुवाससः संमतो हस्तवापः

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 22

गदापाणिर्भीमसेनस्तरस्वी; प्रवेपयञ्शत्रुसंघाननीके

नागः प्रभिन्न इव नड्वलासु; चङ्क्रम्यते कच्चिदेनं स्मरन्ति

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 23

माद्रीपुत्रः सहदेवः कलिङ्गा;न्समागतानजयद्दन्तकूरे

वामेनास्यन्दक्षिणेनैव यो वै; महाबलं कच्चिदेनं स्मरन्ति

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 24

उद्यन्नयं नकुलः प्रेषितो वै; गावल्गणे संजय पश्यतस्ते

दिशं प्रतीचीं वशमानयन्मे; माद्रीसुतं कच्चिदेनं स्मरन्ति

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 25

अभ्याभवो द्वैतवने य आसी;द्दुर्मन्त्रिते घोषयात्रागतानाम्

यत्र मन्दाञ्शत्रुवशं प्रयाता;नमोचयद्भीमसेनो जयश्च

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 26

अहं पश्चादर्जुनमभ्यरक्षं; माद्रीपुत्रौ भीमसेनश्च चक्रे

गाण्डीवभृच्छत्रुसंघानुदस्य; स्वस्त्यागमत्कच्चिदेनं स्मरन्ति

Mahabharata

Udyoga Parva, Adhyaya 23, Verse 27

न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह संजय

सर्वात्मना परिजेतुं वयं चे;न्न शक्नुमो धृतराष्ट्रस्य पुत्रम्