Mahabharata

Udyoga Parva, Adhyaya 22

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 1

प्राप्तानाहुः संजय पाण्डुपुत्रा;नुपप्लव्ये तान्विजानीहि गत्वा

अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ ग्राममुपस्थितस्त्वम्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 2

सर्वान्वदेः संजय स्वस्तिमन्तः; कृच्छ्रं वासमतदर्हा निरुष्य

तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं; मिथ्योपेतानामुपकारिणां सताम्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 3

नाहं क्वचित्संजय पाण्डवानां; मिथ्यावृत्तिं कांचन जात्वपश्यम्

सर्वां श्रियं ह्यात्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यमेव

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 4

दोषं ह्येषां नाधिगच्छे परीक्ष;न्नित्यं कंचिद्येन गर्हेय पार्थान्

धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 5

घर्मं शीतं क्षुत्पिपासे तथैव; निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्

धृत्या चैव प्रज्ञया चाभिभूय; धर्मार्थयोगान्प्रयतन्ति पार्थाः

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 6

त्यजन्ति मित्रेषु धनानि काले; न संवासाज्जीर्यति मैत्रमेषाम्

यथार्हमानार्थकरा हि पार्था;स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 7

अन्यत्र पापाद्विषमान्मन्दबुद्धे;र्दुर्योधनात्क्षुद्रतराच्च कर्णात्

तेषां हीमे हीनसुखप्रियाणां; महात्मनां संजनयन्ति तेजः

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 8

उत्थानवीर्यः सुखमेधमानो; दुर्योधनः सुकृतं मन्यते तत्

तेषां भागं यच्च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 9

यस्यार्जुनः पदवीं केशवश्च; वृकोदरः सात्यकोऽजातशत्रोः

माद्रीपुत्रौ सृञ्जयाश्चापि सर्वे; पुरा युद्धात्साधु तस्य प्रदानम्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 10

स ह्येवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा प्रणुदेद्रथस्थः

तथा विष्णुः केशवोऽप्यप्रधृष्यो; लोकत्रयस्याधिपतिर्महात्मा

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 11

तिष्ठेत कस्तस्य मर्त्यः पुरस्ता;द्यः सर्वदेवेषु वरेण्य ईड्यः

पर्जन्यघोषान्प्रवपञ्शरौघा;न्पतंगसंघानिव शीघ्रवेगान्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 12

दिशं ह्युदीचीमपि चोत्तरान्कुरू;न्गाण्डीवधन्वैकरथो जिगाय

धनं चैषामाहरत्सव्यसाची; सेनानुगान्बलिदांश्चैव चक्रे

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 13

यश्चैव देवान्खाण्डवे सव्यसाची; गाण्डीवधन्वा प्रजिगाय सेन्द्रान्

उपाहरत्फल्गुनो जातवेदसे; यशो मानं वर्धयन्पाण्डवानाम्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 14

गदाभृतां नाद्य समोऽस्ति भीमा;द्धस्त्यारोहो नास्ति समश्च तस्य

रथेऽर्जुनादाहुरहीनमेनं; बाह्वोर्बले चायुतनागवीर्यम्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 15

सुशिक्षितः कृतवैरस्तरस्वी; दहेत्क्रुद्धस्तरसा धार्तराष्ट्रान्

सदात्यमर्षी बलवान्न शक्यो; युद्धे जेतुं वासवेनापि साक्षात्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 16

सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भ्रातरौ फल्गुनेन

श्येनौ यथा पक्षिपूगान्रुजन्तौ; माद्रीपुत्रौ नेह कुरून्विशेताम्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 17

तेषां मध्ये वर्तमानस्तरस्वी; धृष्टद्युम्नः पाण्डवानामिहैकः

सहामात्यः सोमकानां प्रबर्हः; संत्यक्तात्मा पाण्डवानां जयाय

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 18

सहोषितश्चरितार्थो वयःस्थः; शाल्वेयानामधिपो वै विराटः

सह पुत्रैः पाण्डवार्थे च शश्व;द्युधिष्ठिरं भक्त इति श्रुतं मे

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 19

अवरुद्धा बलिनः केकयेभ्यो; महेष्वासा भ्रातरः पञ्च सन्ति

केकयेभ्यो राज्यमाकाङ्क्षमाणा; युद्धार्थिनश्चानुवसन्ति पार्थान्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 20

सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः

शूरानहं भक्तिमतः शृणोमि; प्रीत्या युक्तान्संश्रितान्धर्मराजम्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 21

गिर्याश्रया दुर्गनिवासिनश्च; योधाः पृथिव्यां कुलजा विशुद्धाः

म्लेच्छाश्च नानायुधवीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 22

पाण्ड्यश्च राजामित इन्द्रकल्पो; युधि प्रवीरैर्बहुभिः समेतः

समागतः पाण्डवार्थे महात्मा; लोकप्रवीरोऽप्रतिवीर्यतेजाः

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 23

अस्त्रं द्रोणादर्जुनाद्वासुदेवा;त्कृपाद्भीष्माद्येन कृतं शृणोमि

यं तं कार्ष्णिप्रतिमं प्राहुरेकं; स सात्यकिः पाण्डवार्थे निविष्टः

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 24

अपाश्रिताश्चेदिकरूषकाश्च; सर्वोत्साहैर्भूमिपालैः समेताः

तेषां मध्ये सूर्यमिवातपन्तं; श्रिया वृतं चेदिपतिं ज्वलन्तम्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 25

अस्तम्भनीयं युधि मन्यमानं; ज्याकर्षतां श्रेष्ठतमं पृथिव्याम्

सर्वोत्साहं क्षत्रियाणां निहत्य; प्रसह्य कृष्णस्तरसा ममर्द

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 26

यशोमानौ वर्धयन्यादवानां; पुराभिनच्छिशुपालं समीके

यस्य सर्वे वर्धयन्ति स्म मानं; करूषराजप्रमुखा नरेन्द्राः

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 27

तमसह्यं केशवं तत्र मत्वा; सुग्रीवयुक्तेन रथेन कृष्णम्

संप्राद्रवंश्चेदिपतिं विहाय; सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 28

यस्तं प्रतीपस्तरसा प्रत्युदीया;दाशंसमानो द्वैरथे वासुदेवम्

सोऽशेत कृष्णेन हतः परासु;र्वातेनेवोन्मथितः कर्णिकारः

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 29

पराक्रमं मे यदवेदयन्त; तेषामर्थे संजय केशवस्य

अनुस्मरंस्तस्य कर्माणि विष्णो;र्गावल्गणे नाधिगच्छामि शान्तिम्

Mahabharata

Udyoga Parva, Adhyaya 22, Verse 30

न जातु ताञ्शत्रुरन्यः सहेत; येषां स स्यादग्रणीर्वृष्णिसिंहः

प्रवेपते मे हृदयं भयेन; श्रुत्वा कृष्णावेकरथे समेतौ