Mahabharata

Udyoga Parva, Adhyaya 21

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 1

तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः

संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 2

दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः

दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 3

दिष्ट्या च संधिकामास्ते भ्रातरः कुरुनन्दनाः

दिष्ट्या न युद्धमनसः सह दामोदरेण ते

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 4

भवता सत्यमुक्तं च सर्वमेतन्न संशयः

अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 5

असंशयं क्लेशितास्ते वने चेह च पाण्डवाः

प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम्

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 6

किरीटी बलवान्पार्थः कृतास्त्रश्च महाबलः

को हि पाण्डुसुतं युद्धे विषहेत धनंजयम्

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 7

अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः

त्रयाणामपि लोकानां समर्थ इति मे मतिः

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 8

भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युमान्

दुर्योधनं समालोक्य कर्णो वचनमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 9

न तन्न विदितं ब्रह्मँल्लोके भूतेन केनचित्

पुनरुक्तेन किं तेन भाषितेन पुनः पुनः

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 10

दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा

समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 11

न तं समयमादृत्य राज्यमिच्छति पैतृकम्

बलमाश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 12

दुर्योधनो भयाद्विद्वन्न दद्यात्पदमन्ततः

धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 13

यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः

यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 14

ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः

अधार्मिकामिमां बुद्धिं कुर्युर्मौर्ख्याद्धि केवलम्

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 15

अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः

आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 16

किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि

एक एव यदा पार्थः षड्रथाञ्जितवान्युधि

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 17

न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्

ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान्

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 18

धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च

अवभर्त्स्य च राधेयमिदं वचनमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 19

अस्मद्धितमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत्

पाण्डवानां हितं चैव सर्वस्य जगतस्तथा

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 20

चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि संजयम्

स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम्

Mahabharata

Udyoga Parva, Adhyaya 21, Verse 21

स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान्

सभामध्ये समाहूय संजयं वाक्यमब्रवीत्