Udyoga Parva, Adhyaya 20, Verse 1
स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः
सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः
सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च
सर्वं कौशल्यमुक्त्वादौ पृष्ट्वा चैवमनामयम्
सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह
सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः
वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ
तयोः समानं द्रविणं पैतृकं नात्र संशयः
धृतराष्ट्रस्य ये पुत्रास्ते प्राप्ताः पैतृकं वसु
पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु
एवं गते पाण्डवेयैर्विदितं वः पुरा यथा
न प्राप्तं पैतृकं द्रव्यं धार्तराष्ट्रेण संवृतम्
प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः
शेषवन्तो न शकिता नयितुं यमसादनम्
पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः
छद्मनापहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः
तदप्यनुमतं कर्म तथायुक्तमनेन वै
वासिताश्च महारण्ये वर्षाणीह त्रयोदश
सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम्
अरण्ये विविधाः क्लेशाः संप्राप्तास्तैः सुदारुणाः
तथा विराटनगरे योन्यन्तरगतैरिव
प्राप्तः परमसंक्लेशो यथा पापैर्महात्मभिः
ते सर्वे पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्बिषम्
सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुंगवाः
तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च
अनुनेतुमिहार्हन्ति धृतराष्ट्रं सुहृज्जनाः
न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह
अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम्
यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति
स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते
अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य संगताः
युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम्
अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः
सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ
एकादशैताः पृतना एकतश्च समागताः
एकतश्च महाबाहुर्बहुरूपो धनंजयः
यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते
एवमेव महाबाहुर्वासुदेवो महाद्युतिः
बहुलत्वं च सेनानां विक्रमं च किरीटिनः
बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत को नरः
ते भवन्तो यथाधर्मं यथासमयमेव च
प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम्