Udyoga Parva, Adhyaya 19, Verse 1
युयुधानस्ततो वीरः सात्वतानां महारथः
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम्
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
युयुधानस्ततो वीरः सात्वतानां महारथः
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम्
तस्य योधा महावीर्या नानादेशसमागताः
नानाप्रहरणा वीराः शोभयां चक्रिरे बलम्
परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः
शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः
खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि
तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम्
तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च
बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः
अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम्
प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली
धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः
मागधश्च जयत्सेनो जारासंधिर्महाबलः
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत्
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः
वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत्
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे
प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः
शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः
पार्वतीयैर्महीपालैः सहितः पाण्डवानियात्
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम्
अक्षौहिण्यस्तु सप्तैव विविधध्वजसंकुलाः
युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन्
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन्
भगदत्तो महीपालः सेनामक्षौहिणीं ददौ
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम्
बभौ बलमनाधृष्यं कर्णिकारवनं यथा
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन
दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक्
कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह
अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत्
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम्
अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः
आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान्
तेषामक्षौहिणी सेना बहुला विबभौ तदा
विधूयमाना वातेन बहुरूपा इवाम्बुदाः
सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा
उपाजगाम कौरव्यमक्षौहिण्या विशां पते
तस्य सेनासमावायः शलभानामिवाबभौ
स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा
तथा माहिष्मतीवासी नीलो नीलायुधैः सह
महीपालो महावीर्यैर्दक्षिणापथवासिभिः
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ
पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम्
केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः
संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन्
इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम्
तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः
युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा
राज्ञां सबलमुख्यानां प्राधान्येनापि भारत
ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम्
तथा रोहितकारण्यं मरुभूमिश्च केवला
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत
वारणा वाटधानं च यामुनश्चैव पर्वतः