Mahabharata

Udyoga Parva, Adhyaya 18

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 1

ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः

ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम्

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 2

पावकश्च महातेजा महर्षिश्च बृहस्पतिः

यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 3

सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः

गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 4

स समेत्य महेन्द्राण्या देवराजः शतक्रतुः

मुदा परमया युक्तः पालयामास देवराट्

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 5

ततः स भगवांस्तत्र अङ्गिराः समदृश्यत

अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत्

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 6

ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत

वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 7

अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति

उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 8

एवं संपूज्य भगवानथर्वाङ्गिरसं तदा

व्यसर्जयन्महाराज देवराजः शतक्रतुः

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 9

संपूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान्

इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 10

एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया

अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 11

नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने

द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 12

एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत

वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 13

दुराचारश्च नहुषो ब्रह्मद्विट्पापचेतनः

अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 14

एवं तव दुरात्मानः शत्रवः शत्रुसूदन

क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 15

ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम्

भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 16

उपाख्यानमिदं शक्रविजयं वेदसंमितम्

राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 17

तस्मात्संश्रावयामि त्वां विजयं जयतां वर

संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 18

क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम्

दुर्योधनापराधेन भीमार्जुनबलेन च

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 19

आख्यानमिन्द्रविजयं य इदं नियतः पठेत्

धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 20

न चारिजं भयं तस्य न चापुत्रो भवेन्नरः

नापदं प्राप्नुयात्कांचिद्दीर्घमायुश्च विन्दति

सर्वत्र जयमाप्नोति न कदाचित्पराजयम्

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 21

एवमाश्वासितो राजा शल्येन भरतर्षभ

पूजयामास विधिवच्छल्यं धर्मभृतां वरः

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 22

श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः

प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 23

भवान्कर्णस्य सारथ्यं करिष्यति न संशयः

तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 24

एवमेतत्करिष्यामि यथा मां संप्रभाषसे

यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव

Mahabharata

Udyoga Parva, Adhyaya 18, Verse 25

तत आमन्त्र्य कौन्तेयाञ्शल्यो मद्राधिपस्तदा

जगाम सबलः श्रीमान्दुर्योधनमरिंदमः