Udyoga Parva, Adhyaya 17, Verse 1
अथ संचिन्तयानस्य देवराजस्य धीमतः
नहुषस्य वधोपायं लोकपालैः सहैव तैः
तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ संचिन्तयानस्य देवराजस्य धीमतः
नहुषस्य वधोपायं लोकपालैः सहैव तैः
तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत
सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान्
विश्वरूपविनाशेन वृत्रासुरवधेन च
दिष्ट्या च नहुषो भ्रष्टो देवराज्यात्पुरंदर
दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन
स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तव
पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे
पूजितं चोपविष्टं तमासने मुनिसत्तमम्
पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम्
एतदिच्छामि भगवन्कथ्यमानं द्विजोत्तम
परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः
शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान्
स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः
श्रमार्तास्तु वहन्तस्तं नहुषं पापकारिणम्
देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः
पप्रच्छुः संशयं देव नहुषं जयतां वर
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम्
एते प्रमाणं भवत उताहो नेति वासव
नहुषो नेति तानाह तमसा मूढचेतनः
अधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे
प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः
ततो विवदमानः स मुनिभिः सह वासव
अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः
तेनाभूद्धततेजाः स निःश्रीकश्च शचीपते
ततस्तमहमाविग्नमवोचं भयपीडितम्
यस्मात्पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिरनुष्ठितम्
अदुष्टं दूषयसि वै यच्च मूर्ध्न्यस्पृशः पदा
यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान्
वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः
ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम्
दश वर्षसहस्राणि सर्परूपधरो महान्
विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि
एवं भ्रष्टो दुरात्मा स देवराज्यादरिंदम
दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः
त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते
जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः
ततो देवा भृशं तुष्टा महर्षिगणसंवृताः
पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा
गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः
सरांसि सरितः शैलाः सागराश्च विशां पते
उपगम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शत्रुहन्
हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता
दिष्ट्या पापसमाचारः कृतः सर्पो महीतले