Mahabharata

Udyoga Parva, Adhyaya 16

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 1

त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्

त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत्

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 2

त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः

त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 3

कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम्

गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 4

त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः

यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 5

सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः

सर्वस्यास्य भुवनस्य प्रसूति;स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 6

त्वामग्ने जलदानाहुर्विद्युतश्च त्वमेव हि

दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 7

त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत्

न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु पावक

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 8

स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः

अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 9

एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः

बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम्

दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 10

प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः

आजगाम सरस्तच्च गूढो यत्र शतक्रतुः

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 11

अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ

अन्वपश्यत्स देवेन्द्रं बिसमध्यगतं स्थितम्

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 12

आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः

अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम्

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 13

गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः

पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम्

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 14

महासुरो हतः शक्र नमुचिर्दारुणस्त्वया

शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 15

शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय

उत्तिष्ठ वज्रिन्संपश्य देवर्षींश्च समागतान्

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 16

महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो

अपां फेनं समासाद्य विष्णुतेजोपबृंहितम्

त्वया वृत्रो हतः पूर्वं देवराज जगत्पते

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 17

त्वं सर्वभूतेषु वरेण्य ईड्य;स्त्वया समं विद्यते नेह भूतम्

त्वया धार्यन्ते सर्वभूतानि शक्र; त्वं देवानां महिमानं चकर्थ

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 18

पाहि देवान्सलोकांश्च महेन्द्र बलमाप्नुहि

एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 19

स्वं चैव वपुरास्थाय बभूव स बलान्वितः

अब्रवीच्च गुरुं देवो बृहस्पतिमुपस्थितम्

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 20

किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः

वृत्रश्च सुमहाकायो ग्रस्तुं लोकानियेष यः

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 21

मानुषो नहुषो राजा देवर्षिगणतेजसा

देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम्

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 22

कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम्

तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 23

देवा भीताः शक्रमकामयन्त; त्वया त्यक्तं महदैन्द्रं पदं तत्

तदा देवाः पितरोऽथर्षयश्च; गन्धर्वसंघाश्च समेत्य सर्वे

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 24

गत्वाब्रुवन्नहुषं शक्र तत्र; त्वं नो राजा भव भुवनस्य गोप्ता

तानब्रवीन्नहुषो नास्मि शक्त; आप्यायध्वं तपसा तेजसा च

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 25

एवमुक्तैर्वर्धितश्चापि देवै; राजाभवन्नहुषो घोरवीर्यः

त्रैलोक्ये च प्राप्य राज्यं तपस्विनः; कृत्वा वाहान्याति लोकान्दुरात्मा

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 26

तेजोहरं दृष्टिविषं सुघोरं; मा त्वं पश्येर्नहुषं वै कदाचित्

देवाश्च सर्वे नहुषं भयार्ता; न पश्यन्तो गूढरूपाश्चरन्ति

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 27

एवं वदत्यङ्गिरसां वरिष्ठे; बृहस्पतौ लोकपालः कुबेरः

वैवस्वतश्चैव यमः पुराणो; देवश्च सोमो वरुणश्चाजगाम

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 28

ते वै समागम्य महेन्द्रमूचु;र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः

दिष्ट्या च त्वां कुशलिनमक्षतं च; पश्यामो वै निहतारिं च शक्र

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 29

स तान्यथावत्प्रतिभाष्य शक्रः; संचोदयन्नहुषस्यान्तरेण

राजा देवानां नहुषो घोररूप;स्तत्र साह्यं दीयतां मे भवद्भिः

Mahabharata

Udyoga Parva, Adhyaya 16, Verse 30

ते चाब्रुवन्नहुषो घोररूपो; दृष्टीविषस्तस्य बिभीम देव

त्वं चेद्राजन्नहुषं पराजये;स्तद्वै वयं भागमर्हाम शक्र