Mahabharata

Udyoga Parva, Adhyaya 15

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 1

एवमुक्तः स भगवाञ्शच्या पुनरथाब्रवीत्

विक्रमस्य न कालोऽयं नहुषो बलवत्तरः

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 2

विवर्धितश्च ऋषिभिर्हव्यैः कव्यैश्च भामिनि

नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 3

गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित्

गत्वा नहुषमेकान्ते ब्रवीहि तनुमध्यमे

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 4

ऋषियानेन दिव्येन मामुपैहि जगत्पते

एवं तव वशे प्रीता भविष्यामीति तं वद

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 5

इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा

एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 6

नहुषस्तां ततो दृष्ट्वा विस्मितो वाक्यमब्रवीत्

स्वागतं ते वरारोहे किं करोमि शुचिस्मिते

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 7

भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि

तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 8

न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वस

सत्येन वै शपे देवि कर्तास्मि वचनं तव

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 9

यो मे त्वया कृतः कालस्तमाकाङ्क्षे जगत्पते

ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 10

कार्यं च हृदि मे यत्तद्देवराजावधारय

वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि

वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 11

इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा

इच्छाम्यहमिहापूर्वं वाहनं ते सुराधिप

यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम्

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 12

वहन्तु त्वां महाराज ऋषयः संगता विभो

सर्वे शिबिकया राजन्नेतद्धि मम रोचते

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 13

नासुरेषु न देवेषु तुल्यो भवितुमर्हसि

सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात्

न ते प्रमुखतः स्थातुं कश्चिदिच्छति वीर्यवान्

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 14

एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल

उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम्

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 15

अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि

दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 16

न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन्

अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 17

मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम्

देवदानवगन्धर्वाः किंनरोरगराक्षसाः

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 18

न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते

चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम्

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 19

तस्मात्ते वचनं देवि करिष्यामि न संशयः

सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा

पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 20

एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम्

विमाने योजयित्वा स ऋषीन्नियममास्थितान्

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 21

अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च

कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन्

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 22

नहुषेण विसृष्टा च बृहस्पतिमुवाच सा

समयोऽल्पावशेषो मे नहुषेणेह यः कृतः

शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम्

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 23

बाढमित्येव भगवान्बृहस्पतिरुवाच ताम्

न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 24

न ह्येष स्थास्यति चिरं गत एष नराधमः

अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 25

इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः

शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 26

ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः

बृहस्पतिर्महातेजा देवराजोपलब्धये

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 27

तस्माच्च भगवान्देवः स्वयमेव हुताशनः

स्त्रीवेषमद्भुतं कृत्वा सहसान्तरधीयत

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 28

स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च

पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः

निमेषान्तरमात्रेण बृहस्पतिमुपागमत्

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 29

बृहस्पते न पश्यामि देवराजमहं क्वचित्

आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम्

न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते

Mahabharata

Udyoga Parva, Adhyaya 15, Verse 30

तमब्रवीद्देवगुरुरपो विश महाद्युते