Mahabharata

Udyoga Parva, Adhyaya 14

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 1

अथैनां रुपिणीं साध्वीमुपातिष्ठदुपश्रुतिः

तां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम्

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 2

इन्द्राणी संप्रहृष्टा सा संपूज्यैनामपृच्छत

इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 3

उपश्रुतिरहं देवि तवान्तिकमुपागता

दर्शनं चैव संप्राप्ता तव सत्येन तोषिता

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 4

पतिव्रतासि युक्ता च यमेन नियमेन च

दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम्

क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम्

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 5

ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात्

देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः

हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत्

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 6

समुद्रं च समासाद्य बहुयोजनविस्तृतम्

आससाद महाद्वीपं नानाद्रुमलतावृतम्

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 7

तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम्

शतयोजनविस्तीर्णं तावदेवायतं शुभम्

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 8

तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत

षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 9

पद्मस्य भित्त्वा नालं च विवेश सहिता तया

बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम्

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 10

तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम्

सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 11

इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः

स्तूयमानस्ततो देवः शचीमाह पुरंदरः

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 12

किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम्

ततः सा कथयामास नहुषस्य विचेष्टितम्

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 13

इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः

दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो

उपतिष्ठ मामिति क्रूरः कालं च कृतवान्मम

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 14

यदि न त्रास्यसि विभो करिष्यति स मां वशे

एतेन चाहं संतप्ता प्राप्ता शक्र तवान्तिकम्

जहि रौद्रं महाबाहो नहुषं पापनिश्चयम्

Mahabharata

Udyoga Parva, Adhyaya 14, Verse 15

प्रकाशयस्व चात्मानं दैत्यदानवसूदन

तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च