Udyoga Parva, Adhyaya 13, Verse 1
अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट्तदा
त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते
भजस्व मां वरारोहे पतित्वे वरवर्णिनि
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट्तदा
त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते
भजस्व मां वरारोहे पतित्वे वरवर्णिनि
एवमुक्ता तु सा देवी नहुषेण पतिव्रता
प्रावेपत भयोद्विग्ना प्रवाते कदली यथा
नमस्य सा तु ब्रह्माणं कृत्वा शिरसि चाञ्जलिम्
देवराजमथोवाच नहुषं घोरदर्शनम्
कालमिच्छाम्यहं लब्धुं किंचित्त्वत्तः सुरेश्वर
न हि विज्ञायते शक्रः प्राप्तः किं वा क्व वा गतः
तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो
ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते
एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत्
एवं भवतु सुश्रोणि यथा मामभिभाषसे
ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः
नहुषेण विसृष्टा च निश्चक्राम ततः शुभा
बृहस्पतिनिकेतं सा जगाम च तपस्विनी
तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः
मन्त्रयामासुरेकाग्राः शक्रार्थं राजसत्तम
देवदेवेन संगम्य विष्णुना प्रभविष्णुना
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः
ब्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः
गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्
त्वद्वीर्यान्निहते वृत्रे वासवो ब्रह्महत्यया
वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः
कंचित्कालमिमं देवा मर्षयध्वमतन्द्रिताः
श्रुत्वा विष्णोः शुभां सत्यां तां वाणीममृतोपमाम्
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः
यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः
तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः
ववृते पावनार्थं वै ब्रह्महत्यापहो नृप
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च
पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर
संविभज्य च भूतेषु विसृज्य च सुरेश्वरः
विज्वरः पूतपाप्मा च वासवोऽभवदात्मवान्
अकम्प्यं नहुषं स्थानाद्दृष्ट्वा च बलसूदनः
तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम्
ततः शचीपतिर्वीरः पुनरेव व्यनश्यत
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह
प्रनष्टे तु ततः शक्रे शची शोकसमन्विता
हा शक्रेति तदा देवी विललाप सुदुःखिता
यदि दत्तं यदि हुतं गुरवस्तोषिता यदि
एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि
पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे
देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः
प्रयता च निशां देवीमुपातिष्ठत तत्र सा
पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत्
यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे
इत्याहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम्