Udyoga Parva, Adhyaya 10, Verse 1
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम्
न ह्यस्य सदृशं किंचित्प्रतिघाताय यद्भवेत्
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम्
न ह्यस्य सदृशं किंचित्प्रतिघाताय यद्भवेत्
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम्
कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः
तेजस्वी च महात्मा च युद्धे चामितविक्रमः
ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम्
तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः
विष्णोः क्षयमुपागम्य समेत्य च महात्मना
तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः
एवमुक्ते मघवता देवाः सर्षिगणास्तदा
शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम्
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः
त्वया लोकास्त्रयः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो
अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे
बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः
त्वं प्रभुः सर्वलोकानां त्वया सर्वमिदं ततम्
त्वं हि देव महादेवः सर्वलोकनमस्कृतः
गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम
जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन
अवश्यं करणीयं मे भवतां हितमुत्तमम्
तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक्
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ
भविष्यति गतिर्देवाः शक्रस्य मम तेजसा
अदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम्
गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः
वृत्रस्य सह शक्रेण संधिं कुरुत माचिरम्
एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथा
ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम्
समीपमेत्य च तदा सर्व एव महौजसः
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा
ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः
ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय
न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम्
युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा
अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान्
ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः
उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः
यद्ब्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः
संधिः कथं वै भविता मम शक्रस्य चोभयोः
तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम्
सकृत्सतां संगतं लिप्सितव्यं; ततः परं भविता भव्यमेव
नातिक्रमेत्सत्पुरुषेण संगतं; तस्मात्सतां संगतं लिप्सितव्यम्
दृढं सतां संगतं चापि नित्यं; ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः
महार्थवत्सत्पुरुषेण संगतं; तस्मात्सन्तं न जिघांसेत धीरः
इन्द्रः सतां संमतश्च निवासश्च महात्मनाम्
सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः
तेन ते सह शक्रेण संधिर्भवतु शाश्वतः
एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः
अवश्यं भगवन्तो मे माननीयास्तपस्विनः
ब्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह
ततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः
न शुष्केण न चार्द्रेण नाश्मना न च दारुणा
न शस्त्रेण न वज्रेण न दिवा न तथा निशि
वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः
एवं मे रोचते संधिः शक्रेण सह नित्यदा