Mahabharata

Udyoga Parva, Adhyaya 9

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 1

कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना

दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम्

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 2

शृणु राजन्पुरा वृत्तमितिहासं पुरातनम्

सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 3

त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः

स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत्

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 4

ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः

तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 5

वेदानेकेन सोऽधीते सुरामेकेन चापिबत्

एकेन च दिशः सर्वाः पिबन्निव निरीक्षते

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 6

स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः

तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिंदम

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 7

तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः

विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 8

कथं सज्जेत भोगेषु न च तप्येन्महत्तपः

विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत्

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 9

इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ

आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 10

यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम्

क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम्

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 11

शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः

प्रलोभयत भद्रं वः शमयध्वं भयं मम

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 12

अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः

भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 13

तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने

यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 14

निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः

तं प्रलोभयितुं देव गच्छामः सहिता वयम्

यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम्

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 15

इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम्

तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः

नृत्यं संदर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम्

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 16

विचेरुः संप्रहर्षं च नाभ्यगच्छन्महातपाः

इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 17

तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः

कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन्

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 18

न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो

यत्ते कार्यं महाभाग क्रियतां तदनन्तरम्

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 19

संपूज्याप्सरसः शक्रो विसृज्य च महामतिः

चिन्तयामास तस्यैव वधोपायं महात्मनः

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 20

स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान्

विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत्

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 21

वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति

शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 22

शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम्

अथ वैश्वानरनिभं घोररूपं भयावहम्

मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 23

स पपात हतस्तेन वज्रेण दृढमाहतः

पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 24

तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम्

न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा

हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 25

अभितस्तत्र तक्षाणं घटमानं शचीपतिः

अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः

क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 26

महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति

कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम्

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 27

मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम

मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 28

कं भवन्तमहं विद्यां घोरकर्माणमद्य वै

एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 29

अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते

कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय

Mahabharata

Udyoga Parva, Adhyaya 9, Verse 30

क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा

ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते