Udyoga Parva, Adhyaya 8, Verse 1
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः
अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः
अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः
तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम्
तथा हि बहुलां सेनां स बिभर्ति नरर्षभः
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः
विचित्राभरणाः सर्वे विचित्ररथवाहनाः
स्वदेशवेषाभरणा वीराः शतसहस्रशः
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः
व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम्
शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः
ततो दुर्योधनः श्रुत्वा महासेनं महारथम्
उपायान्तमभिद्रुत्य स्वयमानर्च भारत
कारयामास पूजार्थं तस्य दुर्योधनः सभाः
रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः
स ताः सभाः समासाद्य पूज्यमानो यथामरः
दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः
आजगाम सभामन्यां देवावसथवर्चसम्
स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः
मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम्
पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः
युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः
आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम्
तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम्
परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति
सत्यवाग्भव कल्याण वरो वै मम दीयताम्
सर्वसेनाप्रणेता मे भवान्भवितुमर्हति
कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति
कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः
स तथा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम्
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत्
उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह
समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस्तदा
पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि
ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः
प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम्
तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ
आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह
कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन
अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर
सुदुष्करं कृतं राजन्निर्जने वसता वने
भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह
अज्ञातवासं घोरं च वसता दुष्करं कृतम्
दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत
दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै
अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परंतप
विदितं ते महाराज लोकतत्त्वं नराधिप
तस्माल्लोभकृतं किंचित्तव तात न विद्यते
ततोऽस्याकथयद्राजा दुर्योधनसमागमम्
तच्च शुश्रूषितं सर्वं वरदानं च भारत
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम्
एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते
भवानिह महाराज वासुदेवसमो युधि
कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः
तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि
तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः
अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल
शृणु पाण्डव भद्रं ते यद्ब्रवीषि दुरात्मनः
तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे
अहं तस्य भविष्यामि संग्रामे सारथिर्ध्रुवम्
वासुदेवेन हि समं नित्यं मां स हि मन्यते
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः
ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे