Mahabharata

Udyoga Parva, Adhyaya 7

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 1

गते द्वारवतीं कृष्णे बलदेवे च माधवे

सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 2

सर्वमागमयामास पाण्डवानां विचेष्टितम्

धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश्चरैः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 3

स श्रुत्वा माधवं यातं सदश्वैरनिलोपमैः

बलेन नातिमहता द्वारकामभ्ययात्पुरीम्

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 4

तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः

आनर्तनगरीं रम्यां जगामाशु धनंजयः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 5

तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ

सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 6

ततः शयाने गोविन्दे प्रविवेश सुयोधनः

उच्छीर्षतश्च कृष्णस्य निषसाद वरासने

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 7

ततः किरीटी तस्यानु प्रविवेश महामनाः

पश्चार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 8

प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम्

स तयोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च

तदागमनजं हेतुं पप्रच्छ मधुसूदनः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 9

ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव

विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 10

समं हि भवतः सख्यं मयि चैवार्जुनेऽपि च

तथा संबन्धकं तुल्यमस्माकं त्वयि माधव

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 11

अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन

पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 12

त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन

सततं संमतश्चैव सद्वृत्तमनुपालय

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 13

भवानभिगतः पूर्वमत्र मे नास्ति संशयः

दृष्टस्तु प्रथमं राजन्मया पार्थो धनंजयः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 14

तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात्

साहाय्यमुभयोरेव करिष्यामि सुयोधन

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 15

प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः

तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनंजयः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 16

मत्संहननतुल्यानां गोपानामर्बुदं महत्

नारायणा इति ख्याताः सर्वे संग्रामयोधिनः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 17

ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः

अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 18

आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम्

तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 19

एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनंजयः

अयुध्यमानं संग्रामे वरयामास केशवम्

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 20

सहस्राणां सहस्रं तु योधानां प्राप्य भारत

कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम्

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 21

दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः

ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम्

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 22

सर्वं चागमने हेतुं स तस्मै संन्यवेदयत्

प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 23

विदितं ते नरव्याघ्र सर्वं भवितुमर्हति

यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 24

निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन

मया संबन्धकं तुल्यमिति राजन्पुनः पुनः

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 25

न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत

न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम्

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 26

नाहं सहायः पार्थानां नापि दुर्योधनस्य वै

इति मे निश्चिता बुद्दिर्वासुदेवमवेक्ष्य ह

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 27

जातोऽसि भारते वंशे सर्वपार्थिवपूजिते

गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 28

इत्येवमुक्तः स तदा परिष्वज्य हलायुधम्

कृष्णं चापहृतं ज्ञात्वा युद्धान्मेने जितं जयम्

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 29

सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः

कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा

Mahabharata

Udyoga Parva, Adhyaya 7, Verse 30

स तेन सर्वसैन्येन भीमेन कुरुनन्दनः

वृतः प्रतिययौ हृष्टः सुहृदः संप्रहर्षयन्