Mahabharata

Udyoga Parva, Adhyaya 6

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 1

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः

बुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातयः

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 2

द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः

स भवान्कृतबुद्धीनां प्रधान इति मे मतिः

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 3

कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च

प्रज्ञयानवमश्चासि शुक्रेणाङ्गिरसेन च

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 4

विदितं चापि ते सर्वं यथावृत्तः स कौरवः

पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 5

धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः

विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 6

शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत्

अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम्

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 7

ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम्

न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम्

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 8

भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः

मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 9

विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम्

भीष्मद्रोणकृपाणां च भेदं संजनयिष्यति

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 10

अमात्येषु च भिन्नेषु योधेषु विमुखेषु च

पुनरेकाग्रकरणं तेषां कर्म भविष्यति

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 11

एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः

सेनाकर्म करिष्यन्ति द्रव्याणां चैव संचयम्

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 12

भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि

न तथा ते करिष्यन्ति सेनाकर्म न संशयः

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 13

एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते

संगत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 14

स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन्

कृपालुषु परिक्लेशान्पाण्डवानां प्रकीर्तयन्

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 15

वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम्

विभेत्स्यति मनांस्येषामिति मे नात्र संशयः

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 16

न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित्

दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 17

स भवान्पुष्ययोगेन मुहूर्तेन जयेन च

कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये

Mahabharata

Udyoga Parva, Adhyaya 6, Verse 18

तथानुशिष्टः प्रययौ द्रुपदेन महात्मना

पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम्