Mahabharata

Udyoga Parva, Adhyaya 5

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 1

उपपन्नमिदं वाक्यं सोमकानां धुरंधरे

अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 2

एतच्च पूर्वकार्यं नः सुनीतमभिकाङ्क्षताम्

अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 3

किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु

यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 4

ते विवाहार्थमानीता वयं सर्वे यथा भवान्

कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 5

भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च

शिष्यवत्ते वयं सर्वे भवामेह न संशयः

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 6

भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते

आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 7

स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः

सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान्

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 8

यदि तावच्छमं कुर्यान्न्यायेन कुरुपुंगवः

न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 9

अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः

अन्येषां प्रेषयित्वा च पश्चादस्मान्समाह्वयेः

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 10

ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः

निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 11

ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः

गृहान्प्रस्थापयामास सगणं सहबान्धवम्

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 12

द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः

चक्रुः सांग्रामिकं सर्वं विराटश्च महीपतिः

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 13

ततः संप्रेषयामास विराटः सह बान्धवैः

सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 14

वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते

समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 15

तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम्

धृतराष्ट्रसुतश्चापि समानिन्ये महीपतीन्

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 16

समाकुला मही राजन्कुरुपाण्डवकारणात्

तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम्

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 17

बलानि तेषां वीराणामागच्छन्ति ततस्ततः

चालयन्तीव गां देवीं सपर्वतवनामिमाम्

Mahabharata

Udyoga Parva, Adhyaya 5, Verse 18

ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम्

कुरुभ्यः प्रेषयामास युधिष्ठिरमते तदा