Udyoga Parva, Adhyaya 4, Verse 1
एवमेतन्महाबाहो भविष्यति न संशयः
न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमेतन्महाबाहो भविष्यति न संशयः
न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः
भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ
बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते
एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता
न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथंचन
न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम
गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत्
मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि
मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम्
जितमर्थं विजानीयादबुधो मार्दवे सति
एतच्चैव करिष्यामो यत्नश्च क्रियतामिह
प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः
शल्यस्य धृष्टकेतोश्च जयत्सेनस्य चाभिभोः
केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः
स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम्
तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने
महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः
भगदत्ताय राज्ञे च पूर्वसागरवासिने
अमितौजसे तथोग्राय हार्दिक्यायाहुकाय च
दीर्घप्रज्ञाय मल्लाय रोचमानाय चाभिभो
आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः
पापजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः
बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च
सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः
शकानां पह्लवानां च दरदानां च ये नृपाः
काम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये
जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः
क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः
जानकिश्च सुशर्मा च मणिमान्पौतिमत्स्यकः
पांसुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान्
औड्रश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान्
अपराजितो निषादश्च श्रेणिमान्वसुमानपि
बृहद्बलो महौजाश्च बाहुः परपुरंजयः
समुद्रसेनो राजा च सह पुत्रेण वीर्यवान्
अदारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः
समर्थश्च सुवीरश्च मार्जारः कन्यकस्तथा
महावीरश्च कद्रुश्च निकरस्तुमुलः क्रथः
नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान्
दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः
आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः
भूरितेजा देवकश्च एकलव्यस्य चात्मजः
कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान्
उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः
श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान्
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः
एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते
अयं च ब्राह्मणः शीघ्रं मम राजन्पुरोहितः
प्रेष्यतां धृतराष्ट्राय वाक्यमस्मिन्समर्प्यताम्
यथा दुर्योधनो वाच्यो यथा शांतनवो नृपः
धृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः