Vana Parva, Adhyaya 299, Verse 1
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम्
उपोपविश्य विद्वांसः सहिताः संशितव्रताः
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम्
उपोपविश्य विद्वांसः सहिताः संशितव्रताः
ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः
तानब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा
अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम्
छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः
उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान्
अज्ञातवाससमयं शेषं वर्षं त्रयोदशम्
तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः
युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह
समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा
संमूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः
तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा
राजन्विद्वान्भवान्दान्तः सत्यसंधो जितेन्द्रियः
नैवंविधाः प्रमुह्यन्ति नराः कस्यांचिदापदि
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुशस्तथा
तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः
इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा
छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे
विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम्
प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम्
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया
प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम्
हुताशनेन यच्चापः प्रविश्य छन्नमासता
विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया
एवं विवस्वता तात छन्नेनोत्तमतेजसा
निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः
विष्णुना वसता चापि गृहे दशरथस्य वै
दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा
एवमेते महात्मानः प्रच्छन्नास्तत्र तत्र ह
अजयञ्शात्रवान्युद्धे तथा त्वमपि जेष्यसि
तथा धौम्येन धर्मज्ञो वाक्यैः संपरितोषितः
शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः
राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन्
अवेक्षया महाराज तव गाण्डीवधन्वना
धर्मानुगतया बुद्ध्या न किंचित्साहसं कृतम्
सहदेवो मया नित्यं नकुलश्च निवारितौ
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ
न वयं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान्
भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान्
इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः
प्रयुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान्
सर्वे वेदविदो मुख्या यतयो मुनयस्तथा
आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः
उत्थाय प्रययुर्वीराः कृष्णामादाय भारत
क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः
पृथक्शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः
संधिविग्रहकालज्ञा मन्त्राय समुपाविशन्