Mahabharata

Vana Parva, Adhyaya 298

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 298, Verse 1

ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः

क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम्

Mahabharata

Vana Parva, Adhyaya 298, Verse 2

सरस्येकेन पादेन तिष्ठन्तमपराजितम्

पृच्छामि को भवान्देवो न मे यक्षो मतो भवान्

Mahabharata

Vana Parva, Adhyaya 298, Verse 3

वसूनां वा भवानेको रुद्राणामथ वा भवान्

अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः

Mahabharata

Vana Parva, Adhyaya 298, Verse 4

मम हि भ्रातर इमे सहस्रशतयोधिनः

न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः

Mahabharata

Vana Parva, Adhyaya 298, Verse 5

सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये

स भवान्सुहृदस्माकमथ वा नः पिता भवान्

Mahabharata

Vana Parva, Adhyaya 298, Verse 6

अहं ते जनकस्तात धर्मो मृदुपराक्रम

त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ

Mahabharata

Vana Parva, Adhyaya 298, Verse 7

यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम्

दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम

Mahabharata

Vana Parva, Adhyaya 298, Verse 8

अहिंसा समता शान्तिस्तपः शौचममत्सरः

द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम

Mahabharata

Vana Parva, Adhyaya 298, Verse 9

दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता

द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते सांपरायिके

Mahabharata

Vana Parva, Adhyaya 298, Verse 10

धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः

आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ

Mahabharata

Vana Parva, Adhyaya 298, Verse 11

वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ

ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः

Mahabharata

Vana Parva, Adhyaya 298, Verse 12

अरणीसहितं यस्य मृग आदाय गच्छति

तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम

Mahabharata

Vana Parva, Adhyaya 298, Verse 13

अरणीसहितं तस्य ब्राह्मणस्य हृतं मया

मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो

Mahabharata

Vana Parva, Adhyaya 298, Verse 14

ददानीत्येव भगवानुत्तरं प्रत्यपद्यत

अन्यं वरय भद्रं ते वरं त्वममरोपम

Mahabharata

Vana Parva, Adhyaya 298, Verse 15

वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम्

तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित्

Mahabharata

Vana Parva, Adhyaya 298, Verse 16

ददानीत्येव भगवानुत्तरं प्रत्यपद्यत

भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम्

Mahabharata

Vana Parva, Adhyaya 298, Verse 17

यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम्

न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत

Mahabharata

Vana Parva, Adhyaya 298, Verse 18

वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः

विराटनगरे गूढा अविज्ञाताश्चरिष्यथ

Mahabharata

Vana Parva, Adhyaya 298, Verse 19

यद्वः संकल्पितं रूपं मनसा यस्य यादृशम्

तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ

Mahabharata

Vana Parva, Adhyaya 298, Verse 20

अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत

जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा

Mahabharata

Vana Parva, Adhyaya 298, Verse 21

तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत्

त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक्

Mahabharata

Vana Parva, Adhyaya 298, Verse 22

देवदेवो मया दृष्टो भवान्साक्षात्सनातनः

यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः

Mahabharata

Vana Parva, Adhyaya 298, Verse 23

जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो

दाने तपसि सत्ये च मनो मे सततं भवेत्

Mahabharata

Vana Parva, Adhyaya 298, Verse 24

उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव

भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति

Mahabharata

Vana Parva, Adhyaya 298, Verse 25

इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः

समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः

Mahabharata

Vana Parva, Adhyaya 298, Verse 26

अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः

आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने

Mahabharata

Vana Parva, Adhyaya 298, Verse 27

इदं समुत्थानसमागमं मह;त्पितुश्च पुत्रस्य च कीर्तिवर्धनम्

पठन्नरः स्याद्विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत्

Mahabharata

Vana Parva, Adhyaya 298, Verse 28

न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने

कदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम्