Vana Parva, Adhyaya 297, Verse 1
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान्
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान्
Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान्
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान्
विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम्
भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित्
भूतं महदिदं मन्ये भ्रातरो येन मे हताः
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम्
स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम्
गान्धारराजरचितं सततं जिह्मबुद्धिना
यस्य कार्यमकार्यं वा सममेव भवत्युत
कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः
अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः
भवेदिति महाबाहुर्बहुधा समचिन्तयत्
तस्यासीन्न विषेणेदमुदकं दूषितं यथा
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत्
एकैकशश्चौघबलानिमान्पुरुषसत्तमान्
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते
एतेनाध्यवसायेन तत्तोयमवगाढवान्
गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे
अहं बकः शैवलमत्स्यभक्षो; मया नीताः प्रेतवशं तवानुजाः
त्वं पञ्चमो भविता राजपुत्र; न चेत्प्रश्नान्पृच्छतो व्याकरोषि
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक्
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम्
हिमवान्पारियात्रश्च विन्ध्यो मलय एव च
चत्वारः पर्वताः केन पातिता भुवि तेजसा
अतीव ते महत्कर्म कृतं बलवतां वर
यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः
विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम्
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम्
कौतूहलं महज्जातं साध्वसं चागतं मम
येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः
मयैते निहताः सर्वे भ्रातरस्ते महौजसः
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम्
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम्
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम्
सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः
मेघगम्भीरया वाचा तर्जयन्तं महाबलम्
इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत्
बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया
न पेयमुदकं राजन्प्राणानिह परीप्सता
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च
नैवाहं कामये यक्ष तव पूर्वपरिग्रहम्
कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो
यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम्
किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत्
केन द्वितीयवान्भवति राजन्केन च बुद्धिमान्
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत्
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव
कश्चैषां मानुषो भावः किमेषामसतामिव